Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 219
________________ (२१०) सूर्यसिद्धान्तः [ द्वादशोऽमेरावुत्तराग्रावस्थिता देवा मेषादिचक्रार्धे मेषादिराशिषट्केऽवस्थितमकै सकृदेकवारम् । एवकारादनेकवारनिरासनिश्चयः ।। उदितमदर्शनानन्तरं प्रथमदर्शनविषयं निरन्तरं पश्यन्ति । असुरा मेरुदक्षिणाग्रस्था दैत्याः । चः देवैः समुच्चयार्थः । तुलादिराशिषट्कस्थं तद्वत् सकृदुदितं निरंतरं पश्यन्ति ॥ ६७ ॥ मा० टी०-मरुस्थित देवतालोग मेषादिचक्रार्द्धगत सूर्यको सदा देखते हैं और असुरलोग जुलादिगत सूर्यको तैसाही देखते हैं ॥ ६७ ॥ अथ निरक्षदेशादयनसन्धौ कियद्भिर्योजनैरू_मर्को भवति तदाह भूमण्डलात्पञ्चदशे भागे देवेऽयवासुरे ॥ उपरिष्टाजत्यर्कः सौम्ययाम्यायनान्तगः ॥ ६८॥ देव उत्तरभागे। अथवासुरे दक्षिणभागे । निरक्षदेशाद्भूपरिधेः पंचदशे भागे तत्फलयोजनांतरिते देशे क्रमेण सौम्ययाम्यायनान्तगउत्तरायणांतदक्षिणायनांतस्थितोऽर्क उपरिष्टादूर्ध्व व्रजति परिभ्रमति । यथा गोलसंधी निरक्षदेशे तथात्र भागद्वय इति फलितार्थः । अत्रोपपत्तिः । अयनांतस्थे परमकांतिश्चतुर्विंशत्यंशास्तद्योजनानि । 'भूवृत्तं क्रांतिभागघ्नं भगणांशविभाजितम् ' इत्यत्र चतुर्विंशतिमितगुणभगणांशमितहरौ गुणेनापवर्त्य हारस्थाने पंचदशेति भूमंडलात्पंचदशे भाग इत्युक्तमुपपन्नम् ॥ ६८ ॥ ___ भा० टी०-भूवृत्तके पंचदश भाग दूर उत्तर अयनमें देवभागमें भौर दक्षिणायनमें मसुरभागमें सूर्य मस्तकके ऊपर होकर भ्रमण करते हैं ॥ ६८ ॥ अथ निरक्षदेशाडूपरिधिपञ्चदशभागपर्यन्तं सूर्यस्य दक्षिणोत्तरतो गमनमुक्त्वा तच्छायागमनं प्रतिपादयति तदन्तरालयोश्छाया याम्योदवसम्भवत्यपि ॥ मेरोरभिमुखं याति परतः स्वविभागयोः ।। ६९ ॥ तदन्तरालयोनिरक्षदेशात्पञ्चदशभागमध्यस्थितदक्षिणोत्तरदेशयोश्छाया द्वादशांगुलशंकोर्मध्याह्नच्छायाभीष्टकालिकच्छायाग्रं वा दक्षिणाप्रमुत्तराग्रं वा संभवति । एतदुक्तं भवति । निरक्षदेशात्पंचदशभागान्तरालोत्तरदेशे मध्याह्ननतांशानां दक्षिणत्वे छायाग्रमुत्तरम् । नतांशानामुत्तरत्वे छायाग्रं दक्षिणम् । एवं निरक्षदेशात्पञ्चदशभागान्तगलस्थितदक्षिणदेशे सूर्यस्योत्तरस्थत्वे छायाग्रं दक्षिणं दक्षिणस्थत्वे छायाग्रमुत्तरमिति । परतः पञ्चदशभागान्तरालदेशे स्वविभागयोदक्षिणोत्तरविभागयोमरोरभिमुखं मेर्वकयोः सम्मुखं क्रमेण दक्षिणायमुत्तराग्रं यथा स्यात्तथेत्यर्थः । छाया याति गच्छति । भवतीत्यर्थः ।आपशब्दः पूर्वार्धार्थेन समुच्चयार्थकः ॥ ६९ ॥ भाटी-इन दोनोंके मध्यस्थित स्थानमें छाया दक्षिण. या उत्तरमें स्थित होसकती इतने ऊग अपने २ भागमें छाया मेरुके सामने पतित होता है ॥ ६९ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262