Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 214
________________ घ्यायः १२. ] संस्कृतटीका - भाषाटीकासमेतः । ( २०५ ) जनाः स्वाधिष्ठितप्रदेशात् सर्वतः सर्वदिक्षु । अभिमुखं वृत्तां गोलाकारामेतां प्रत्यक्षां पृथ्वीं चक्राकारां मण्डलाकारां समां पश्यन्ति । एवकारार्थेऽपिशब्दः । तेन भूमेर्वस्तुतो गोलाकारत्वेऽपि तदाकारेणादर्शनं मुकुराकारतया दर्शनं च न विरुद्धम् । अत्र हेतुमाह-अल्पकायतयेति । ह्रस्वशररित्वेनेत्यर्थः । तथाच महतीभस्तत्पृष्ठस्थस्य मनुष्यस्याति-ह्रस्वस्याल्पदृष्टिप्रचाराद्गोलाकारतया न भासते किन्तु सममण्डलतया भासते गोलवृत्तशतांशस्य समत्वेन भानात् । अन्यथा प्रथमज्यायाश्चापसमत्वानुपपत्तिरिति भावः ॥ ५४ ॥ मा०टी०-छोटे शरीरवाले होनेसे लोग चारों ओर इस पृथ्वीको गोलाकाररूपसे देखते हैं ॥ ५४ ॥ अथ निरक्षादिदेशेषु मेरुव्यतिरिक्तान्यदेशेषु दिनरात्र्योर्मानं विवक्षुमेरोरग्रभागयोनिरक्षदेशेषु भचक्रभ्रमणमाह- सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् ॥ उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखः सदा ॥ ५५ ॥ मयं प्रत्यक्षो भगोलो नक्षत्राधिष्ठित मूर्तगोलो देवानां मेरोरुत्तराग्रवर्तिनां सव्यम् । पूर्वादिक्रममार्गेणेत्यर्थः । भ्रमति भ्रमपरिवर्त करोतीत्यर्थः । दैत्यानां मेरोदक्षिणाग्रवर्तिनामपसव्यं पूर्वादिदिग्व्युत्क्रममार्गेण । पूर्वोत्तरपश्चिम दक्षिणक्रमेणेत्यर्थः । नक्षत्रा -- धिष्ठितगोले भ्रमति । व्यक्षे निरक्षदेशेषु । जात्यभिप्रायेणैकवचनम् । उपरिष्टान्मस्तकोर्ध्वमध्यभागो भगोलः पश्चान्मुखः पश्चिमदिगभिमुखः सदा नित्यं परिभ्रमति । भगोलस्य ध्रुवमध्यस्थत्वेन भ्रमणात् । तयोस्तत्र क्षितिजवृत्तस्यत्वाच्च ॥ ५५ ॥ भा०टी० - यह भूगोल देवताओंके निकट सव्यादिमें ( दक्षिण से वाममें) और असुरोंके निकट अपसव्यादिमें और निरक्षमनुष्योंके निकट मस्तको मध्यभाग में पश्चिम दिशाम भ्रमण करता है ॥ ५५ ॥ अथ निरक्षे दिनरात्र्योर्मानं कथयन्नन्यत्रापि ततो न्यूनाधिकं मानं, भवतीत्याह - अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरी तथा ॥ हानिवृद्धी सदा वामं सुरासुरविभागयोः ॥ ५६ ॥ अतो निरक्षे मस्तकोर्ध्वभगोलो भ्रमतीति कारणात् तत्र निरक्षदेशे त्रिंशन्नाडिकं त्रिंशद्धीमितं दिनं स्यात् । शर्वरी रात्रिस्तथा त्रिंशद्वटीपरिमिता स्यात् । तत् क्षितिजवृत्तस्य ध्रुवद्वयसंलग्नतया गोलमध्यस्थत्वाद्दिनरात्र्योस्तुल्यत्वं युक्तमेवेति भावः । सुरासुरविभागयोर्जम्बूद्वीपसमुद्रादिदक्षिणदेशयोः सदा विषुवत्क्रमणातिरिक्तकाले क्षयवृद्धी दिनरात्र्योः प्रत्येकं वामं व्यस्तं यथा स्यात् तथा ज्ञेयम् । एतदुक्तं भवति जम्बूद्वीपे दिनहासे रात्रिवृद्धिस्तदा दक्षिणदेशे दिनरात्र्योः क्रमेण वृद्धिहानी । जम्बू Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262