________________
घ्यायः १२. ]
संस्कृतटीका - भाषाटीकासमेतः ।
( २०५ )
जनाः स्वाधिष्ठितप्रदेशात् सर्वतः सर्वदिक्षु । अभिमुखं वृत्तां गोलाकारामेतां प्रत्यक्षां पृथ्वीं चक्राकारां मण्डलाकारां समां पश्यन्ति । एवकारार्थेऽपिशब्दः । तेन भूमेर्वस्तुतो गोलाकारत्वेऽपि तदाकारेणादर्शनं मुकुराकारतया दर्शनं च न विरुद्धम् । अत्र हेतुमाह-अल्पकायतयेति । ह्रस्वशररित्वेनेत्यर्थः । तथाच महतीभस्तत्पृष्ठस्थस्य मनुष्यस्याति-ह्रस्वस्याल्पदृष्टिप्रचाराद्गोलाकारतया न भासते किन्तु सममण्डलतया भासते गोलवृत्तशतांशस्य समत्वेन भानात् । अन्यथा प्रथमज्यायाश्चापसमत्वानुपपत्तिरिति
भावः ॥ ५४ ॥
मा०टी०-छोटे शरीरवाले होनेसे लोग चारों ओर इस पृथ्वीको गोलाकाररूपसे देखते हैं ॥ ५४ ॥
अथ निरक्षादिदेशेषु मेरुव्यतिरिक्तान्यदेशेषु दिनरात्र्योर्मानं विवक्षुमेरोरग्रभागयोनिरक्षदेशेषु भचक्रभ्रमणमाह-
सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् ॥ उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखः सदा ॥ ५५ ॥
मयं प्रत्यक्षो भगोलो नक्षत्राधिष्ठित मूर्तगोलो देवानां मेरोरुत्तराग्रवर्तिनां सव्यम् । पूर्वादिक्रममार्गेणेत्यर्थः । भ्रमति भ्रमपरिवर्त करोतीत्यर्थः । दैत्यानां मेरोदक्षिणाग्रवर्तिनामपसव्यं पूर्वादिदिग्व्युत्क्रममार्गेण । पूर्वोत्तरपश्चिम दक्षिणक्रमेणेत्यर्थः । नक्षत्रा -- धिष्ठितगोले भ्रमति । व्यक्षे निरक्षदेशेषु । जात्यभिप्रायेणैकवचनम् । उपरिष्टान्मस्तकोर्ध्वमध्यभागो भगोलः पश्चान्मुखः पश्चिमदिगभिमुखः सदा नित्यं परिभ्रमति । भगोलस्य ध्रुवमध्यस्थत्वेन भ्रमणात् । तयोस्तत्र क्षितिजवृत्तस्यत्वाच्च ॥ ५५ ॥
भा०टी० - यह भूगोल देवताओंके निकट सव्यादिमें ( दक्षिण से वाममें) और असुरोंके निकट अपसव्यादिमें और निरक्षमनुष्योंके निकट मस्तको मध्यभाग में पश्चिम दिशाम भ्रमण करता है ॥ ५५ ॥
अथ निरक्षे दिनरात्र्योर्मानं कथयन्नन्यत्रापि ततो न्यूनाधिकं मानं, भवतीत्याह - अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरी तथा ॥ हानिवृद्धी सदा वामं सुरासुरविभागयोः ॥ ५६ ॥
अतो निरक्षे मस्तकोर्ध्वभगोलो भ्रमतीति कारणात् तत्र निरक्षदेशे त्रिंशन्नाडिकं त्रिंशद्धीमितं दिनं स्यात् । शर्वरी रात्रिस्तथा त्रिंशद्वटीपरिमिता स्यात् । तत् क्षितिजवृत्तस्य ध्रुवद्वयसंलग्नतया गोलमध्यस्थत्वाद्दिनरात्र्योस्तुल्यत्वं युक्तमेवेति भावः । सुरासुरविभागयोर्जम्बूद्वीपसमुद्रादिदक्षिणदेशयोः सदा विषुवत्क्रमणातिरिक्तकाले क्षयवृद्धी दिनरात्र्योः प्रत्येकं वामं व्यस्तं यथा स्यात् तथा ज्ञेयम् । एतदुक्तं भवति जम्बूद्वीपे दिनहासे रात्रिवृद्धिस्तदा दक्षिणदेशे दिनरात्र्योः क्रमेण वृद्धिहानी । जम्बू
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com