________________
(२०६) सूर्यसिद्धान्तः
[ द्वादशा-- द्वीपदिनवृद्धौ रात्रिहानिस्तदा दक्षिणदेशे दिनराग्योः क्रमेण हानिवृद्धी । एवं दक्षिणदेशे हानिवृद्धयोर्जम्बूद्वीपे वृद्धिहानी दिने रात्रौ वा यथायोग्यमिति । अत्रोपपत्तिः। तत् क्षितिजवृत्तस्य ध्रुवसम्बन्धभावेन गोलमध्यस्थत्वाभावादिनराग्योः सदा विषुवदिनव्य. तिरिक्तेन तुल्यत्वं किन्तु न्यूनाधिकत्वमहोरात्रस्य षष्टिघाटकात्मकत्वादिति ॥ ५६ ॥
भा० टी०- निरक्षदेशमें सदा तीस घडीका दिन और ३० हीकी रात होती है । सुरासुरविभागमें दिनगतके विपरीतरूपसे हानि वृद्धि होती है ॥ ५६ ।। अथैतत् श्लोकोत्तरार्थ श्लोकाभ्यां विशदयति
मेषादौ तु सदा वृद्धिरुदगुत्तरतोधिका ॥ देवांशे च क्षपाहानिर्विपरीतं तथा सुरे ॥ ५७॥ तुलादो युनिशामिं क्षयवृद्धी तयोरुभे॥
देशकान्तिवशान्नित्यं तद्विज्ञानं परोदितम् ॥१८॥ मेषादौ षड्भ उदगुत्तरगोले सूर्ये सति । उत्तरतो यथोत्रं सदा यावदुत्तरगोले देवांशे जम्बूद्वीपेऽधिका यथोत्तरमधिका वृद्धिर्निरक्षदेशीयदिने तुकारायथोत्तरं सूर्यस्योत्तरगमने यथोत्तरं दिने वृद्धिः परमोत्तरगमनात् परावर्तते । यथोत्तरं न्यूनावृद्धिरित्यर्थः । क्षपाहानी रात्रेरपचयः । चा समुच्चये । आसुरे ससुद्रादिदक्षिणभागे तथा दिनराज्योः क्षयवृद्धी विपरीतं व्यस्तम् । दिने हानी रात्रौ वृद्धिरित्यर्थः । तुलादौ षड्भे दक्षिणगोले सर्ये सति तयोर्जम्बूद्वीपसमुद्रादिदक्षिणभागयोदिनराम्योरुभे दे क्षयवृद्धी उपचयापचयौ वामं व्यस्तम् । अयमर्थः । जम्बूद्वीपे दिनरात्र्योरुत्तरगोलस्थवृद्धिक्षयक्रमेण क्षयवृदी स्तः। समुद्रादिदक्षिणभागे दिनरात्र्योवृद्धिक्षयौ स्त इति । ननु क्षयवृद्धयोः कियमितत्वमित्यतः पूर्वोक्तं स्मारयति-देशकान्तिवशादिति । तद्विज्ञानं तयोः क्षयवृद्धयो. ज्ञानं संख्याज्ञानं नित्यं प्रत्यहं देशकान्तिवशात् । देशपलभाक्रान्तिरेतदुभयानुरोधात्पु. रा पूर्वखण्डस्पष्टाधिकारे "क्रांतिज्या विषुवद्भानी क्षितिज्या द्वादशोदृत्ता । त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः । तत्कार्मुकम्” इत्यनेन दिनराव्योरर्धमुक्तम् । तद्दिगुणं दिनराज्योरित्यसिद्धम् । अत्रोपपत्तिः । निरक्षदेशे ध्रुवद्वयलग्नं क्षितिजवृत्तं तत उत्तरभागे स्वस्थानक्षितिजं स्वभूगोलमध्यस्थमुत्तरध्रुवादधो दक्षिणध्रुवाच्चोच्चमित्यत उत्तर गोले निरक्षाक्षितिजादधो दक्षिणगोल अर्ध्वमिति पंचदशघटिका निरक्षदशदिनार्धं क्षितिजान्तररूपचरेण गोलक्रमण युतहीनं दिनार्धं राज्यधै च विपरीतम् । एवं दक्षिणभागेs भीष्टदेशे क्षितिजमुत्तरसुवादुन्नतं दक्षिणधुवान्नतामति निरक्षक्षितिजान्निरक्षक्षितिजं गोलक्रमेणो/ध इत्युत्तरभागाव्यस्तम् ॥ ५७ ॥ ५८ ॥
१ मेषादी प्रत्यहम् इति वा पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com