________________
(२०४) सूर्यसिद्धान्तः
[ द्वादशोऽएवं च देवदैत्ययोर्विपरीतावस्थानादिनराज्योरीत्यं युक्तमेवेति भावः ॥५१॥
मा० टी०-दिवाई मौर राज्य याम्योत्तर अयनान्तमें होताहै। मुरासुरका विपरीत मावसे हुआ करताहै | और वे अपने २ स्थानको उपर समझते हैं ॥ ११ ॥ अथ देवदैत्ययोरूवाधोरीतिमन्यत्रापि सदृष्टान्तमतिदिशति
अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम् ।।
भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः ॥५२॥ अन्ये देवदैत्यभिन्ना भूगोलस्थाः । अपिशब्दो देवदैत्ययोः समुच्चयार्थकः । समसूत्र' स्था भूव्यासान्तीरता नराः परस्परमधो मन्यन्ते । तत्रोदाहरति । भद्राश्वकेतुमालस्था इति । भद्राश्वकेतुमालशब्दौ स्वस्यान्तर्गतयमकोटिरोमकनगरविशेषाभिधायको स्पष्ट भूव्यासान्तरस्थत्वमंगीकरोतु यथाश्रुतं परस्परमधो मन्यन्ते तुर्यचरणस्तु ब्यक्त 'एव ॥ ५२॥
भा० टी०-वैसेही समसूत्रवाले गण परस्परको नीचे समझते हैं । जैसे भद्राश्च और केतुमाळ अथवा लंका और सिद्धपुरवासी समसूत्रवाले हैं ॥ ५२ ॥ अथोक्तं काल्पनिकमेत द्रढयन्नाह
सर्वत्रैव महीगोले स्वस्थानमुपर स्थितम् ।।
मन्यन्ते खे यतो गोलस्तस्य वाध्व क्वाप्यधः ॥ ५३॥ भूगोले सर्वत्र सर्वप्रदेशेषु मध्ये स्वस्थानं निजाधिष्ठितस्थानमूर्ध्वस्थितं तदधिष्ठिता मनुष्याः स्वाभिमानेनाङ्गोकुर्युः । अतः कारणाडूगोले सर्व एवोर्ध्वस्थाः । अधःस्थास्तु न भवन्त्येव । स्वापेक्षयोवधिःस्थत्वं न वस्तुत इति तत्त्वम् । अन्यथाधःस्थत्वेन पतनशङ्कया भूगोले मनुष्याद्यवस्थानानुपपत्तेः । अत्र कारणमाह-व इति । यतः कारणात् खे ब्रह्माण्डाकाशमध्यभागे भूगोलोऽस्ति । तथाच भूगोलादभितस्तुल्यत्वाद्भूगोले तत्त्वतयोध्वोंधोभागादेरसम्भव इति भावः । स्वाभिप्रायं स्पष्टयति-तस्येति । भूगोलस्याकाशमध्यस्थस्य समन्तादाकाशे क्व कस्मिन् भागे उर्ध्वमूर्ध्वत्वम् । कस्मिन् भागे । वा समुच्चये । अधोऽधस्त्वम् । अपिरूलत्वेन समुच्चयार्थकः । तथा च समन्तादाकाशस्य तुल्यत्वेन भूमेरू/धोभागौ निर्वचनीकर्तुमशक्यौ याभ्यामूर्ध्वाधोलोकानियताः स्युरिति भूमेरूर्वाधोभागाद्यसम्भवादिति भावः ॥ ५३ ॥
मा० टी०-पृथ्वीके गोल होनेसे सर्वत्र अपने २ स्थानको उपर स्थितहुआ समझते हैं' ान्य मध्यस्थित गोलमें नीचाही क्या है ? और उसमें ऊंचाईही कहां है ? ॥ ५३ ॥ नन्वियं भूः समादर्शाकारा प्रत्यक्षा कथं गोलाकारेत्यत आह
अल्पकायतया लोकाः स्वात्स्थानात्सर्वतो मुखम् ।। पश्यन्ति वृत्तामप्येतां चक्राकारां वसुन्धराम् ॥ ५४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com