Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 169
________________ (१६० ) सूर्यासद्धान्तः [ नवमो:उक्तेष्टकालांशयोरन्तरस्य कलाः सूर्यग्रहयोर्गत्योः कलात्मकान्तरेण भक्ताः । दिनादिकमुदयास्तयोः फलमुदयास्तयांर्गतैष्यादिनाद्यं भवतीत्यर्थः । वक्रगतिग्रहस्य विशेषमाह । लब्धमिति । वक्रिणो वक्रग्रहस्य भुक्तियोगेन सूर्यग्रहयोः कलात्मगतियोगेन मक्ताः फलं गतैष्यदिनाचं ज्ञेयम् । अत्रोपपात्तः । सूर्यग्रहयोर्गत्यन्तरकलाभिरेकं दिन तदेष्टप्रोक्तकलांशयोरन्तरकलाभिः किमित्यनुपातेनोदयास्तयोरभीष्टकालाद्गतैष्यादनाद्य. वगमः । वक्रग्रहे तु सूर्यग्रहयोगतियोगेन प्रत्यहमन्तरवृद्धतियोगादनुपात उपपन्न इत्युपपन्नमुक्तम् ॥ १० ॥ भा०टी०-अपने २ कालांशसे इष्टकालांश अलग करके कला बनाय भुक्त्यन्तरसे मागक रनेपर दिनादि फल होंगे वक्री होनेपर भुक्तियोग ग्रहण करना चाहिये ॥ १० ॥ अथ ग्रहगतिकलयोः क्रांतिवृत्तस्थत्वाकालांशान्तरस्याहोरात्रवृत्तस्थत्वाच्चानुपातः प्रमाणेच्छयोवैजात्येनायुक्त इति मनसि धृत्वा तयोरेकजातित्वसम्पादनाथै ग्रहगत्योरिच्छाजातीयत्वं वदंस्तदन्तरेणानुपातस्तु युक्त एवेत्याह तल्लनासुहते मुक्ती अष्टादशशतोद्धृते ॥ स्यातां कालगती ताभ्यां दिनादिगतगम्ययोः ॥ ११॥ भुक्ती रविग्रहयोर्गती कलात्मके तल्लग्नासुहते कालसाधनाथ ग्रहस्य यो राश्युदयो ग्रहीतस्तेनास्गात्मकोदयेन गुणित अष्टादशशतेन भक्ते फले सूर्यग्रहयोः कालांशवत्काल गती स्याताम् । ताभ्यां गतिभ्यां गतगम्ययोरुदयास्तयादिनादिपूर्वोक्तप्रकारेण साध्यम् । नतुः पूर्वोक्तप्रकारेण यथास्थितगतिभ्यां स्थूलत्वापत्तेः । अत्रोपपत्तिः । एकराशिकलाभी राश्युदयासवस्तदा गतिकलाभिः कइत्यनुपातेनाहोरात्रवृत्ते गत्यसवः कलासमा इत्युपपन्नमुक्तम् ॥ ११ ॥ भा०टी०-दो भुक्तियों को उस लनप्राणसे गुणकरके १८०० से माग करनेपर काल गति होगी । तिसस ( १० श्लोकोक्त ) गत और गम्यदिनादिनिर्णय करे ॥ ११ ॥ अथ नक्षत्राणां सूर्यसान्निध्यवशादस्तोदयज्ञानार्थ कालांशान् विवक्षुः प्रथममे षामाह स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः ॥ अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः ॥ १२ ॥ मृगव्याधो लुब्धकः । त्रयोदशभिः कालांशेर्दृश्यानि नक्षत्राणि भवन्ति । शेष स्पष्टम् ॥ १२ ॥ भा० टी०-स्वाती, अगस्त्य, मृगव्याध, चित्रा, ज्येष्ठा, पुनर्वसु, अभिजित, ब्रह्महृदय इनका वालांश १३ अंश हैं॥ ११ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262