________________
सूर्य्यसिद्धान्तः
( १५८ )
[ नवमोऽ
'लिकायामा नतिकालेन पूर्ववच्चालिताभ्यां प्राक्पश्चिमदृरग्रहाभ्यां सूर्यसषडभसूर्याभ्यां चानतिकालो नाक्षत्रोऽपि सूक्ष्मासन्नः । सूर्योदयास्तसम्बन्धाभावात्तदुत्पन्नाः कालांशा अपि तथा । अथ सूर्योदयास्तका लिकाभ्यामानीतैकवारं कालात्कालांशाः स्थूला इष्टकालिकाभ्यामानीतैकवारकालात्कालांशा अतिस्थूला उभयत्र कालस्य सावनत्वात् । नहि सावनषष्टिधटोभिश्वकपरिपूर्तिर्येन सूक्ष्माः सिध्यन्तीति ॥ ५ ॥
मा० टी० - प्राक्काळ में सूर्य और ग्रहके स्फुटसे लग्नान्तर प्राण निर्णय करके ६० से भाग करनेपर काढांश हेगा | पश्चिमकाल में ६ राशियुक्त दो स्पष्ट के लग्नान्तरं प्राणनिर्णय
करे ॥ ५ ॥
अथ यैः कालांशेरुदयोsस्तो वा भवति तान् विवक्षुः प्रथमं गुरुशनिभौमानां कालां
शानाह-
एकादशामरेज्यस्य तिथिसंख्यार्कजस्य च ॥ अस्तांशा भूमिपुत्रस्य दश सप्ताधिकास्ततः ॥ ६ ॥
ततं इष्टकालांशावगमानन्तरमस्तांशाः । अस्तो यैरंशैर्भवति तेंऽशा अस्तोपलक्षणादुदयांशा ज्ञेयाः । अमरेज्यस्य गुरोरेकादश कालांशाः । शनेः चद्शसंख्याः कालांशाः । चः समुच्चये । भौमस्य सप्ताधिका दश सप्तदश कालांशा इत्यर्थः ॥ ६ ॥
मा० टी० - वृहस्पति ११ शनि १५ मंगल १७, यही तिनकें अस्तोश ( कालांश ) हैं ॥ ६ ॥
अथ शुक्रस्याह-
पश्चादस्तमयोऽष्टाभिरुदयः प्राइमहत्तया ॥
प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्मृगोः ॥ ७ ॥
शुक्रस्य महत्तया वक्रत्वेन नीचासन्नत्वात्स्थूलविम्बतया पश्चिमायामस्तोऽष्टाभिः कालांशैः प्राच्यामुदयश्च तैः । नाधिकैः । प्राध्यां शुक्रस्याल्पत्वादणुबिम्बत्वाद्दशमिः कालांशैरस्तं गणकः कुर्यात् । नाल्पैः । पश्चिमायामुदयस्तस्याणुबिम्बस्य दशभिः कालांशैव ज्ञेयः ॥ ७ ॥
भा० टी० - स्थूलताक हेतुले शुक्रका पश्वादस्त ८ कालांश में होता है और पूर्वोदय होता है | किन्तु प्रागस्त और पश्चादयमें बिम्बके छोटे होने से १० अंश लेने पडते है ॥ ७ ॥
अथ बुधस्याह-
एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः || वक्की शीघ्रगतिश्वार्कात्करोत्यस्तमयोदयो ॥ ८ ॥
• वक्रशधिगतिश्वः कति इति वा गठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com