Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 204
________________ घ्यायः १२.] संस्कृतटीका-भाषाटोकासमेतः। अथ चराचरं जगदकरोदित्याह ततश्चराचरं विश्व निर्ममे देवपूर्वकम् ॥ ऊर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्यः प्रकृतीः सृजन् ॥ २६ ॥ ततः स चक्रग्रहसर्जनानन्तरमूर्ध्वमध्याधरेभ्यः श्रेष्ठमध्याधमेभ्यः स्रोतोभ्यो व्यक्तिभ्यः प्रकृतीः सत्त्वरजस्तमोविभेदात्मकप्रकृतीः सृजन्निमार्यन् देवपूर्वकं देवमनुष्यासुरादिकं विश्वं जगचराचरं चेतनाचेतनात्मकं निर्ममे कृतवान् ॥ २६ ॥ मा० टी०-तदोपरान्त श्रेष्ठ, अधम, अनुयायी, प्रकृति सृजन करके देव मानवादि चराचर विश्वको निर्माण किया ॥ २६ ॥ अथ रचितपदार्थानामवस्थानं कृतवानित्याह गुणकर्मविभागेन मृष्ट्वा प्राग्वदनुक्रमात् ॥ विभागं कल्पयामास यथास्वं वेददर्शनात् ॥२७॥ गुणाः सत्त्वरजस्तमोरूपाः कर्म पूर्वजन्मार्जितं सदसत्कर्म । अनयोविभागेनकीकरणात्मकेन प्राग्वञ्चन्द्रसूर्यादिपायुक्तसृष्टिरित्यनुक्रमात्सृष्ट्वा देवमनुष्यासुरभूमिपर्वतादिकचराचरसर्जनं कृत्वा वेददर्शनाद्वेदोक्तप्रकारायथास्वं यथादेशं यथाकालं विभागमवस्थानविभागं कल्पयामास कृतवान् ॥ २७ ॥ मा० टी०-गुण और कर्मके विभागसे पूर्वक्रमरूपसे सृष्टिकरके वेदमें कही रीतिके मन सार विभागादि किये ॥ २७ ॥ केषामित्यत आह ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः ॥ देवासुरमनुष्याणां सिद्धानां च यथाक्रमम् ॥२८॥ विभुर्नियोजनसमर्थो ब्रह्मा ग्रहनक्षत्रयोबिम्बानां पृथिव्यास्त्रलोक्यस्य । वाकारः समु. चये । आकाशेऽवस्थानं कृतवान् । तत्र ग्रहनक्षत्राणां यथाकालमनियतावस्थानम् । पृथिव्यास्तु नियतावस्थानम् । पृथिव्यां तु त्रैलोक्यस्य यथादेशमवस्थानम् । तत्र यथाक्रमं यथायोग्यं देवासुरमनुष्याणां सिद्धानाम् । चः समुच्चये । अवस्थानं यथादेशं कृतवान् ॥ २८॥ __ भा० टी०-अणिमादिगुणसम्पन्न ब्रह्माजीने ग्रह नक्षत्र ताराओंको, पृथ्वीको और विश्वको तथा देवासुर सिद्धादिको तिन २ के वियोजित क्रमसे स्थित कराया ॥ २८ ॥ .. ननु सर्वत्राकाशस्य सत्त्वाब्रह्माण्डमध्यस्थेन ब्रह्मणा ग्रहनक्षत्राणां भूमेश्यावस्थानं ब्रह्माण्डबहिराकाशे कृतमथवा ब्रह्माण्डान्तराकाशे कृतमित्यत आह ब्रह्माण्डमेतत्सुषिरं तत्रेदं भूर्भुवादिकम् ॥ कटाहद्वितयस्यैव सम्पुटं गोलकाकृतिः ॥२९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262