________________
घ्यायः १२.] संस्कृतटीका-भाषाटोकासमेतः। अथ चराचरं जगदकरोदित्याह
ततश्चराचरं विश्व निर्ममे देवपूर्वकम् ॥
ऊर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्यः प्रकृतीः सृजन् ॥ २६ ॥ ततः स चक्रग्रहसर्जनानन्तरमूर्ध्वमध्याधरेभ्यः श्रेष्ठमध्याधमेभ्यः स्रोतोभ्यो व्यक्तिभ्यः प्रकृतीः सत्त्वरजस्तमोविभेदात्मकप्रकृतीः सृजन्निमार्यन् देवपूर्वकं देवमनुष्यासुरादिकं विश्वं जगचराचरं चेतनाचेतनात्मकं निर्ममे कृतवान् ॥ २६ ॥
मा० टी०-तदोपरान्त श्रेष्ठ, अधम, अनुयायी, प्रकृति सृजन करके देव मानवादि चराचर विश्वको निर्माण किया ॥ २६ ॥ अथ रचितपदार्थानामवस्थानं कृतवानित्याह
गुणकर्मविभागेन मृष्ट्वा प्राग्वदनुक्रमात् ॥ विभागं कल्पयामास यथास्वं वेददर्शनात् ॥२७॥ गुणाः सत्त्वरजस्तमोरूपाः कर्म पूर्वजन्मार्जितं सदसत्कर्म । अनयोविभागेनकीकरणात्मकेन प्राग्वञ्चन्द्रसूर्यादिपायुक्तसृष्टिरित्यनुक्रमात्सृष्ट्वा देवमनुष्यासुरभूमिपर्वतादिकचराचरसर्जनं कृत्वा वेददर्शनाद्वेदोक्तप्रकारायथास्वं यथादेशं यथाकालं विभागमवस्थानविभागं कल्पयामास कृतवान् ॥ २७ ॥
मा० टी०-गुण और कर्मके विभागसे पूर्वक्रमरूपसे सृष्टिकरके वेदमें कही रीतिके मन सार विभागादि किये ॥ २७ ॥ केषामित्यत आह
ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः ॥
देवासुरमनुष्याणां सिद्धानां च यथाक्रमम् ॥२८॥ विभुर्नियोजनसमर्थो ब्रह्मा ग्रहनक्षत्रयोबिम्बानां पृथिव्यास्त्रलोक्यस्य । वाकारः समु. चये । आकाशेऽवस्थानं कृतवान् । तत्र ग्रहनक्षत्राणां यथाकालमनियतावस्थानम् । पृथिव्यास्तु नियतावस्थानम् । पृथिव्यां तु त्रैलोक्यस्य यथादेशमवस्थानम् । तत्र यथाक्रमं यथायोग्यं देवासुरमनुष्याणां सिद्धानाम् । चः समुच्चये । अवस्थानं यथादेशं कृतवान् ॥ २८॥ __ भा० टी०-अणिमादिगुणसम्पन्न ब्रह्माजीने ग्रह नक्षत्र ताराओंको, पृथ्वीको और विश्वको तथा देवासुर सिद्धादिको तिन २ के वियोजित क्रमसे स्थित कराया ॥ २८ ॥ .. ननु सर्वत्राकाशस्य सत्त्वाब्रह्माण्डमध्यस्थेन ब्रह्मणा ग्रहनक्षत्राणां भूमेश्यावस्थानं ब्रह्माण्डबहिराकाशे कृतमथवा ब्रह्माण्डान्तराकाशे कृतमित्यत आह
ब्रह्माण्डमेतत्सुषिरं तत्रेदं भूर्भुवादिकम् ॥ कटाहद्वितयस्यैव सम्पुटं गोलकाकृतिः ॥२९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com