________________
(१९६) सूर्यसिद्धान्तः
[द्वादशोऽएतत्मागुक्तं ब्रह्मणाधिष्ठितं सुवर्णाण्डं सुषिरमपकाशात्मकं तबावकाशे इदं जगत् भूर्भुवःस्वर्गात्मकमवस्थितं न बहिः । नन्वण्डमगोलाकारत्वेनान्तरावकाशात्मकत्वमसम्भवतीत्यत आह- कटाहद्वितयस्येति । कटाहोऽर्धगोलाकरं सावकाशं पात्रं तस्य द्वितयं द्वयं समं तस्य । एक्कारो न्यूनाधिकव्यवच्छेदकार्थः । सम्पुटमाभिमुख्येन मिलितं गोलकाकृतिर्गोलाकारः स्यात् । तथाच न क्षतिः ॥ २९ ॥ __ भाल्टो०-अवकाशयुक्त ब्रह्माण्ड में भूर्भुवादि स्थित हैं । दो कटाहके सम्पुट जातिकी समान गोलाकार है ॥ २९ ॥
अथ ब्रह्माण्डान्तःपरिधिं वदस्तदंतर्भग्रहादिकमाकाशे यथास्थानं परिभ्रमतीति श्लोकाभ्यामाह
ब्रह्माण्डमध्ये परिधिव्योमकक्षाभिधीयते ॥ तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा॥ ३० ॥ मन्दामरेज्यभूपुत्रमूर्यशुक्रन्दुजेन्दवः !!
परिभ्रमन्त्यधोऽधस्थाः सिद्धविद्याधरा घनाः ॥३१॥ ब्रह्माण्डान्तः परिधिस्तुल्यवृत्तमानं व्योमकक्षा वक्ष्यमाणाकाशकक्षोच्यते । तन्मध्ये ब्रह्माण्डमध्य आकाशे भानां नक्षत्राणां सर्वेषां सर्वतस्तुल्योवान्तरितानां भ्रमणं भ. वति । तथा तुल्योर्धान्तरेणाधो नक्षत्रेभ्योऽधोऽधःक्रमाच्छनिबृहस्पतिभौमार्कशुकवुधचन्द्रा अधस्तात्परिभ्रमन्ति । सिद्धा विद्याधराश्वाधस्थाश्चन्द्रादधस्थिता अधोध: क्रमेणाकाशे स्थिताः । एषां प्रवहवायाववस्थानाभावाञ्चन्द्रवन्न परिभ्रमः ॥ ३० ॥३१॥ ___ भा०टी०-ब्रह्माण्डमें परिधिका नाम व्योमकक्षा हे तिसमें नक्षत्रोंका भ्रमण है तिसके नोच क्रमानुसार शनि, बृहस्पति, मंगल, शुक्र, सूर्य, बुध चन्द्रमा भ्रमण करते हैं । तिसके. नीचे सिद्ध विद्याधर गण, मोर सबसे नीचे समस्त भेघ स्थित हैं ॥ ३० ॥ ३१॥ अथ भूम्यवस्थानमाह
मध्ये समन्तादण्डस्य भूगोलो व्योनितिष्ठति ॥
बिभ्राणः परमां शक्तिं ब्रह्मणो धारणालिकाम् ॥ ३२॥ . अण्डस्य ब्रह्माण्डस्य समन्तात्सर्वप्रदेशान्मध्ये मध्यस्यान केन्द्ररूप आकाशे भूगोलस्तिष्ठति । नन्वाकाशे निराधारवस्तुनोऽवस्थानासम्भवास्थमवस्थितो भूमिगोल इ. त्यतो भूगोलविशेषणमाह-बिभ्राण इति । ब्रह्मणः परमां शक्तिं धारणात्मिकां निराधारावस्थानरूपां बिभ्राणो धारयन । तथा च न क्षतिः । एतेन भूः किमाकारा किमाश्रयति प्रश्नदयमुत्तरितम् ॥ ३२ ॥
भा०टी०-ब्रह्माकी धारणारिमका परमाशक्तिके बलसे अण्डके सर्व प्रदेशके मध्यदेशमें योमके बीच भूगोल स्थित है ।। ३२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com