SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ध्यायः १२. ] संस्कृतीका भाषाटीकासषेतः । अथ कथंचात्र सप्तपातालभूमय इति प्रश्नस्योत्तरमाहतदन्तरपुटाः सप्त नागासुरसमाश्रयाः ॥ दिव्यौषधिरसोपेता रम्याः पातालभूमयः ॥ ३३ ॥ तस्य भूगोलस्यान्तरपुटा मध्यस्थपुटा गुहारूपाः सप्तातलवितलसुतलादिकाः पातालभूमयः पातालप्रदेशा रम्या मनोहराः सन्ति । ननु भूगोले मनुष्यादिकमस्ति तथा तत्र के सन्तीत्यतस्तद्विशेषणमाह - नागासुरसमाश्रया इति । वासुकिप्रमुखादयः सर्पा दैत्या एषामाश्रयभूताः । ननु तत्र सूर्यसञ्चाराभावात्तमोमयत्वेन तत्स्थितलोकानां व्यवहारः कथं भवतीत्यतो द्वितीयं विशेषणमाह - दिव्यौषधिरसोपेता इति । दिव्या या औष धयः स्वप्रकाशास्तासां रसैर्युक्ताः । तथा च तत्प्रकाशेन व्यवहारो भवति तद्वशेन तल्लोकानां जीवनं च भवतीति भावः ॥ ३३ ॥ ( १९७) भा० टी०-भूगोल के अन्त में स्थित नागासुराश्रित पातालादि ७ भूमियें स्वप्रकाश वृक्षों से • युक्त और रमणीक हैं ॥ ३३ ॥ . अथ भूगोलमुक्त्वा दक्षिणेत्तर भूव्यासाधिकप्रमाणमेरोरवस्थानमाहअनेकरत्ननिचयो जाम्बूनदमयो गिरिः || भूगोलमध्यगो नेरुरुभयत्र विनिर्गतः ॥ ३४ ॥ भूगोलमध्यगतः पर्वतो मेल्याने करत्ननिचयोऽनेकानि नानाविधानि पाणिक्यवज्रादीनि तेषां निचयः समूहा त्रासौ । जाम्बूनदमयो जाम्बूनदं । "जम्बूफलामल गल्सतः प्रवृत्ता जम्बूनदी रतदुता मृदभूत्सुवर्णम् । जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत्पिबन्त्यमृतपानानुभावाः ॥” इति भास्कराचार्योक्तेश्च सुवर्ण तन्मयः स्वर्णघटित उभयत्र व्यासारित भूपृष्ठप्रदेशाभ्यां विनिर्गतो बहिः स्थितदण्डाकारस्वर्णाद्रिमध्ये भूगोलः प्रोतोऽस्ति । अतएव भूभृदित्यन्वर्थसंज्ञ इति तात्पर्यार्थः ॥ ३४ ॥ भा० टी० - भूगोल के मध्यगा और उभय मेरुसे निकली हुई जम्बूनदीसे शोभित विविध रत्नका बना हुआ मेरु है ॥ ३४ ॥ अथ मेरोरूर्ध्वाधः प्रदेशयोर्देवादयोऽसुराश्च वसन्तीत्याहउपरिष्टात्स्थितास्तस्य सेन्द्रा देवा महर्षयः ॥ अधस्तादसुरास्तद्वद्दिषन्तोऽन्योन्यमाश्रिताः ॥ ३५ ॥ उपरिष्टात्स्थितास्तस्य सेन्द्रा इंद्रसहिता देवा इन्द्रादयो देवा महर्षयः । चः समुच्चयार्थोऽनुसन्धेयः । स्थिताः । अधस्तान्मेरोरधः प्रदेशे । असुरा दैत्याः । तद्वत् । यथोर्ध्वभागे देवास्तद्वदित्यर्थः । आश्रिता आस्थिताः । ननु देवासुरराचैकत्र कथं न स्थिता इत्यत आह- द्विषन्त इति । अन्योन्यं परस्परं द्वेषं कुर्वन्तः । तथा च देवासुरोः पर Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy