SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ( १९८ ) सूर्यसिद्धान्तः [ दशमा स्परं द्वेषसद्भावादेकत्रावस्थानासंभवेनोत्तमा देवास्तदूर्ध्वभागे स्थिता महर्षयश्च दैत्यभीवास्तंत्रैव स्थितास्तदधोभागे तन्निकृष्टा दैत्याः स्थिता इति भावः ॥ ३५ ॥ मा० टी० - ऊपर ( उत्तर दिशा ) में इन्द्रादि देवता और महर्षिगण स्थित हैं | नीचे ( दक्षिण में ) असुरोंका वास है । परस्पर में विद्वेष होनेके कारण दूसरी दिशा में आश्रय किया है ॥ ३५ ॥ अथ भूगोले समुद्रावस्थानमाह ततः समन्तात्पारीधः क्रमेणायं महार्णवः ॥ मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ॥ ३६ ॥ दण्डाकारमेगेः सकाशादभितोऽयं प्रत्यक्षो महार्णवो महासमुद्रः क्रमेण निरन्तरालक्रमेण परिधिरूपो भूम्या मेखलेव काञ्चीरूपो देवासुरविभागकृत् देवदैत्ययोर्भूमिगोले विभागयोरवधिरेखारूप इत्यर्थः । तेन समुद्रादुत्तरं भूगोलस्यार्धं जम्बूद्वीपं देवानां समुद्रा दक्षिणं समुद्रातिरिक्तं भूमिगोलस्यार्धं षड्वीपषट् समुद्रोभयात्मकं दैत्यानामिति सिद्धम् । मेरुदण्डानुरुद्ध भूगोलमध्ये परिधिरूपो लवणसमुद्रोऽस्ति । उत्तरगोलार्धं दक्षि णभूगोलार्धार्न्तगतसमुद्रस्य प्रान्तपरिधिस्पृष्टमिति मरेखेलायाः कटयधः स्थितत्वेन तात्पर्यार्थः ॥ ३६ ॥ मा०टी०-तिसमें महासमुद्र घेरे के आकार से मेखलाको समान स्थित है । समुद्रने भूगोळ को देवार भूमि विभाग किया है || ३६ || अथ समुद्रोत्तरतटे परिधिरूपे जम्बूद्वीपारम्भे चतुर्विभागे चत्वारि नगरा सन्तीत्याह समन्तान्मरुमध्यात्त तुल्यभागेषु तोयधेः ॥ द्वीपेषु दिक्षु पूर्वादि नगर्यो देवनिर्मिताः ॥ ३७ ॥ मेरुमध्याद्दण्डाकारमेरोर्मध्यप्रदेशाद्भूगोलगर्भात्मकादिति त्वर्थः । समन्तादभितो भूगोलपृष्ठे तोयधेः परिधिरूपसमुद्रस्य तुल्यभागेषु समभागेषु डीपेषु जम्बूद्वीपारम्भेषु दिक्षु चतुर्विभागेषु चतुर्दिक्षु पूर्वादिनगर्यो मेरोः पूर्वदक्षिणपश्चिमोत्तरदिक् क्रमेण चतुःपुर्यो देवनिर्मिता देवैः कृताः सन्तीति शेषः । समुद्रोत्तरतटे जम्बूद्वीपस्यादिभागरूपे तुल्यान्तरेण चत्वारि नगराणि भूगोलस्य कल्पितपूर्वादिदिशासु सन्तीति तात्पर्यार्थः ३७ ॥ माटी- मेरुमध्यप्रदेशमै घेरारूप समुद्रकी पूर्वादि चारों दिशाओं में देवताओंकी बनाई हुई चार हैं ॥ ३७ ॥ यथासां नामानि द्वीपोत्थितस्य जम्बूद्रीपादिभागस्थितवर्षाख्यपारिभाषिकविभागेष्वित्यर्थे च श्लोकत्रयेण विशदयति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy