________________
ध्यायः १२] संस्कृतटीका-भाषाटीकासमेतः ।
भूवृत्तपादे पूर्वस्यां समकोटीति विश्रुता॥ भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥ ३८॥ याम्यायां भारत वर्षे लंका तन्महापुरी ॥ पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता ॥३९॥ उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता ॥
तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः॥४०॥ भूगोल उभयत्र दण्डाकारो मेरुर्यत्र निर्गतस्तत्स्थानाभ्याम् । वृत्ताकारसूत्रेणोर्ध्वाध. रेण भूगोलस्य खण्डद्वयं पूर्वापरं तिर्यग्वृत्ताकारं सूत्रेणोवधिोभूमेः खण्डद्वयं तेन भू. गोलेव प्राकाराश्चत्वारो भूम्यंशास्तत्रोर्ध्वस्थपूर्ववप्रे भूम्यां यः समुद्रपरिधिस्तस्य चतुर्थाशे भद्राश्वसंज्ञकवर्षे पूर्वस्मिन्नूवधिःशकलसन्धौ सुवर्णघटिताः प्रासादास्तोणानि च यस्यामेतादृशी पुरी यमकोटोति संज्ञया विश्रुता विख्याता याम्यायामूर्ध्वशकलद्वयसंधौ मेरुस्तस्य दाक्षिणत्वाद्भारतसञ्ज्ञवर्षे लंकासज्ञा महानगरी तद्वत स्वर्णप्राकारतोरणा विश्रुतेत्यर्थः । पश्चिमे पश्चिमशकलाधःस्थशकलसन्धौ के. तुमालसंज्ञे वर्षे रोमकसंज्ञा नगरी उक्ता । उदक् । अधाशकलयसन्धौ कुरुसज्ञकवर्षे सिद्धपुरीनाम नगरी प्रोक्ता । अस्याः पुर्याः सिद्धपुरीत्वमन्वमित्याहतस्यामिति । सिद्धपुर्या सिद्धा योगाभ्यासका अस्मदादिभ्यो महानुत्कृष्ट आत्मा येषां ते गतव्यथा दुःखरहिता निरन्तरा वसन्ति ॥ ३८ ॥ ३९ ॥ ४० ॥
भा०टी०-भूवृत्तके चतुर्थीशसे पूर्वदेशमें भद्राश्व वर्ष है, तिसमें यमकोटि पुरी है कहते हैं कि या सुवर्षकी भीत और तोरणोंसे वेष्टित है । दक्षिणदिशामें भारतवर्ष है; तिसके मध्यमें लंका महापुरी है । पश्चिमके बीच केतुमाळवर्षमें रोमक नगरी है। उत्तरमें कुरुवर्ष पुरीके बीच सिद्धपुरी स्थित है, तहां सिद्ध महात्मालोग सब कष्टोंसे छुटे हुए वास करते हैं।॥ ३८ ॥ ३९ ॥ ४० अथोक्तानां चतुर्णी पुराणां परस्परमन्तरालमव्यवहितं मेरोरासामन्तरं चाह
भृवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः॥ .
ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः ॥४१॥ ता उक्तनगर्योऽन्योन्यं परस्परं भूवृत्तपादविवरा भूगोलवृत्तपरिधिचतुर्थांशान्तरालाः प्रतिष्ठिताः सन्तीत्यर्थः । चकारः पूर्वोक्तेन समुच्चयार्थकः । ताभ्य उक्तपुरीभ्यः सकाशादुत्तरदिक्स्थो मेरुः पूर्वोक्तः सुराश्रयः देवैरधिष्ठितस्तावान्भूपरिधिचतु१ ताभ्यश्चोत्तरतो मेरुरिति वा पाठः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com