SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ( २०० ) सूर्यसिद्धान्तः [ द्वादशोऽ थंशान्तरण स्थितः । एवकारो न्यूनाधिकव्यवच्छेदार्थः । चकारः श्लाकपूवाधन समुच्चयार्थः ॥ ४१ ॥ मा० टी० - नगरियें भूवृत्तके चनुर्थांश परस्पर के अन्तर में स्थित हैं । तिनसे तिनकी बार बर उत्तरदेशमें वह मेरुपर्वत है जिसपर देवता लोग रहते हैं ॥ ४१ ॥ अथ तेषां पुराणां निरक्षत्वमस्तीत्याह तासामुपरिगो याति विषुवस्थो दिवाकरः ॥ न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते ॥ ४२ ॥ तासामुक्तनगरीणां विषुवत्थो विषुववृत्तस्थो यद्दिने समरात्रिन्दिवं तद्दिने यन्मार्गे भ्रमति तद्विषुवद्वृत्तं तत्रस्थ इत्यर्थः । सूर्य उपरिंगः सन्याति भ्रमति । अतः कारणातासु नगरीषु विषुवच्छायाक्षभा न भवति तन्नगराणां विषुवद्वत्ताभिन्नपूवापरवृत्तसद्भावात् । तत्रस्थसूर्यमध्याह्ने छायाभावोपलम्भात् । अतएव तेषु नगरेषु अक्षध्रुवस्योनतिमुच्चताक्षांशरूपा नेष्यते नांगीक्रियते । अक्षांशाभावान्निरक्षदेशत्वं तेषां सिद्धमिति भावः ॥ ४२ ॥ मा० टी० - विषुवतस्थित सूर्य तिनसे ऊपरको गमन करते हैं। इस कारण तहां पर न विषुत्र च्छाया है न अक्षोन्नति है ॥ ४२ ॥ अथ मेरायुक्तपुरीषु च क्रमेण लम्बांशाक्षांशाभावावुपपत्त्या प्रतिपादयिषुस्तयोः प्रथमं ध्रुवस्थितिमाह - मेरोरुभयतो मध्ये ध्रुवतारे नभः स्थिते ॥ निरक्षदेश संस्थानामुभये क्षितिजाश्रये ॥ ४३ ॥ मेरोरुभयतो दक्षिणोत्तराप्रयोराकाशस्थिते ध्रुवतारे दक्षिणोत्तरे क्रमेण मध्य आकाशमध्ये भवतः । निरक्षदेशसंस्थानां प्रागुक्तनगरस्थितमनुष्याणामुभये दक्षिणोत्तरे ध्रुवतारे क्षितिजाश्रये तद्भूगर्भक्षितिजवृत्तस्थे भवत इत्यर्थः ॥ ४३ ॥ मा० टी० - दोनों मेरु मध्य आकाश में दक्षिण और उत्तर में दो: धवतारे स्थित हैं । निर क्षदेशमें स्थित होने के कारण दोनों क्षितिज रेखामें स्थित हैं ॥ ४३ ॥ अथात एव तेष्वक्षांशाभावलम्बांशपरमत्वमिति वदन्मेरावक्षांशपरमत्वमित्याहअतो नासोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः ॥ नवतिलंम्बक शास्तु मेरावक्षांशकास्तथा ॥ ४४ ॥ तासूक्तनगरीषु । अत उभये क्षितिजाश्रये इतिकारणात् । यक्षोच्छ्रयो ध्रुवौच्च्यं न । तथा च क्षितिजादुधुवौच्च्यमक्षांशा इति तदभावात्तदभाव इति भावः । तुका रातन्नगरीषु ध्रुवयोः क्षितिजस्थयोः । सतोलम्बांशा नवतिः शून्याक्षांशोननवतेलम्वांशत्वात् । खमध्याद्ध्रुवयोः क्षितिजस्य लम्बांशस्वरूपत्वाच्च मेरावक्षांशास्तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy