________________
घ्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः । नवतिः । ध्रुवस्य परमोचत्वात् । यथा निरक्षदेशेऽक्षांशाभावालम्बांशाः परमास्त. था मेरावक्षांशपरमत्वालम्बांशाभाव। इत्यसिद्धम् । एतेन “ पुरान्तरं चदिदमु. त्तरं स्यात्तदक्षविश्लेषलवैस्तदा किम् । चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परि. धेः प्रमाणम् ॥” इति भास्कराचार्योक्तं प्रथमप्रश्नस्योत्तरं सूचितम् । स्पष्टपरिधि. साधनं च कल्पितैकमध्यस्थानानुरोधेनापचीयमानं मेरावभावात्मकं नानुपपन्नमिति च सूचितम् ॥ ४४ ॥
भा०टी०-तिसके लिये तहापर वौच्च्य नहीं है। दो ध्रुव क्षितिज गोलमें स्थित हैं इसकारण तहांके लम्बकांश ९० और मेरुके भक्षांश नम्चे हैं ॥ ४४ ॥ अथाहोरात्रव्यवस्थां चेत्यादिप्रश्नोत्तरं विवक्षुर्देवासुरयोदिनारम्भं प्रथममाह
मेषादौ देवभागस्थे देवानां याति दर्शनम् ॥
असुराणां तुलादौ तु सूर्यस्तद्भागसंचरः॥ ४५ ॥ जम्बूद्वीपलक्षणसमुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्समसूत्रेणाकाशे वृत्तं विषुववृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुववृत्तमार्गे भ्रमति मेषस्थानात्कर्कादिस्थानं विषुववृत्ताच्चतुर्विंशत्यंशान्त उत्तरतः । मकरादिस्थानं विषुवद्वत्ताचतुर्विंशत्यंशान्तरे दक्षिणतः । तत्स्वस्थाने प्रवहवायुना भ्रमति । एवं क्रांतिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुना भवन्ति । तत्र मेषादौ देवभागस्थो जम्बूद्वीपं देवासुरविभागकृदिति पूर्वोक्तेः। तत्सम्बद्धा मेषादिकन्यांता राशय उत्तरगोलः । तत्रस्थः सूर्यो मेषादौ मेषादिप्रदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासानंतरप्रथमदर्शनं याति गच्छति । प्रामोतीत्यर्थः । विषुवद्वत्तस्य तक्षितिजत्वात् । एवं दैत्यानां मेरोदक्षिणायवर्तिनामित्यसुराणामित्युक्तेनैवोक्तम् । तद्भागसञ्चगे दैत्यभागे समुद्रादिदक्षिणविभागस्थास्तुलादिमीनान्ता राशयो दाक्षिणगोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशसूर्यस्तुलादिप्रदेशे तुकाराददर्शनानन्तरं प्रथमदर्शनं प्रामोतीत्यर्थः । तेषामपि विषुवद्वत्ताक्षातजत्वात् ॥ ४५ ॥
भा० टी०-सूर्यमेषादि देवभागमें स्थित होनेपर देवतामाका दृश्य होता है । तुलादि असुर मागमें स्थितहो तो असुरोंका दृश्य होता है ॥ ४५ ॥ अथ प्रसङ्गाग्रीष्मे तीव्रकर इत्याद्य|क्तप्रश्नस्योत्तरमाह
अत्यासनतया तेन ग्रीष्मे तीबकरा खेः॥
देवभागे सुराणां तु हेमन्ते मन्दतान्यथा ॥ ४६॥ तेन । उत्तरदक्षिणगोलयोः सूर्यस्योत्तरदक्षिणसंचाररूपकारणेनेत्यर्थः । देवभागे जम्बूद्वीपे । अत्यासन्नतया सूर्यस्यात्यन्तनिकटस्थत्वेन ग्रीष्मे ग्रीष्मौ सूर्यस्य तेजोगोलकस्य किरणास्तीक्ष्णा अत्युष्णा असुराणां देवभाग इत्यस्यासन्नतया भाग इत्यस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com