________________
(२०२) सूर्यसिद्धान्तः--
[ द्वादशोसमन्वयादैत्यानां भागे समुद्रादिदक्षिणप्रदेशो हेमन्ते हेमन्तौ तुकारात्सूर्यस्यात्युष्णाः किरणाः सूर्यस्यात्यासन्नत्वात् । अन्यथा सूर्यस्य दूरस्थत्वेन मन्दता किरणाना. मत्युष्णताभावः । देवभागे हेमन्तौ कराणां मन्दता । अतएव तत्र शीताधिक्यं दैत्यमागे ग्रीष्मे कराणां मन्दता शीताधिक्यं च। तथाच । देवभागे दक्षिणगोले सूर्यस्य दूरस्थत्वमुत्तरगोले निकटस्थत्वं मध्याह्ननतांशानां क्रमणाधिकाल्पत्वादिति भावः ॥ ४६॥ __ भा० टी०-इसीकारण अस्यासनके वशसे देवभागमें देवताओं के पक्षमें सूर्यको किरण तीव्र होती हैं। अन्यथा हेमन्तमें मन्दताको प्राप्त करती हैं ॥ ४६ ॥ अथ मेषादौ देवभागस्य इत्युक्तं देवासुराहोरात्रकथनव्याजेन विशदयति
देवासुरा विषुवति क्षितिजस्थं दिवाकरम् ॥
पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षपे ॥४७॥ विषुवात काले देवदैत्याः सूर्य क्षितिजस्थं पश्यन्ति । विषुववृत्तस्य तयोः स्वस्थाना गोलमध्यस्थत्वेन क्षितिजत्वात् । एतेष देिवदैत्यानामन्योन्यं परस्परं ये वामसव्ये अपसव्यसव्ये त क्रमण दिनक्षपे दिवसरात्री भवतः । अयं भावः । देवानां भूमेरुत्वरभागः स्वकीयत्वात्सव्यमतो दत्यानामपसव्यं स्वकीयत्वाभावात् । एवं दैत्यानां भूमेदशिणभागः स्वकीयत्वात्सव्यं देवानां स्वकीयत्वाभावादपसव्यमतो दैत्यानां वामसव्यभागावुत्तरदक्षिणगोली देवानां क्रमेण दिनरात्री । देवानां वामसव्यभागी दक्षिणोत्तरगोलो दैत्यानां दिनरात्री । अन्यथान्योन्यं वामसव्ये इत्यनयोः संगतार्थानुपपत्तेः । अतएव पूर्व मेषादावित्यायुक्तमिति ॥ ४७ ॥ ___ भा० टी०-विषुवदिनमें सूर्यको देवता और असुर क्षितिजोखामें देखते हैं। इस प्रकारसे उत्तर दक्षिण वशसे दिनरातका परस्पर उल्टा फेर होता है ॥ १७ ॥
अथ पूर्वश्लोकोत्तरार्धस्य सन्दिग्धत्वशङ्कया दिनपूर्वापरार्धकथनच्छलेन तदर्थश्लोकाभ्यां विशदयति
मेषादावुदितः सूर्यस्त्रीराशीनुदगुत्तरम् ॥ सञ्चरन्प्रागहमध्यं पूरयेन्मेरुवासिनाम् ॥ १८॥ कादीन सञ्चरंस्तद्वदतः पश्चार्धमेव सः॥
तुलादीस्त्रीन्मृगादीश्च तद्रदेव सुरद्विषाम् ॥ १९ ॥ मेषादौ विषुववृत्तस्थक्रांतिवृत्तभागे रेवत्यासन उदितो दर्शनतां प्राप्तः सूर्य उत्तरं यथोत्तरं क्रमेणेति यावत् । त्रीनराशीनुदगुत्तरभागस्थान्मेषवृषमिथुनान्सचरन्नतिक्रामन्सन्मेरुस्थानां देवानां प्रागहमध्यं प्रथमं दिनस्याधै पूरयेत्पूर्ण करोतीत्यर्थः । मिथुनान्ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com