________________
(१९४) सूर्यसिद्धान्तः
[ द्वादशोऽनिर्जलं पृथिवी । “आकाशाद्वायुयोरग्निरनेरापोऽयः पृथिवी" इति गुणैकवृद्धया गुण स्यैकोपचयेन महाभूतानि पञ्चसङ्ख्याकानि । एवकारान्यूनाधिकव्यवच्छेदः । जज्ञिरे उत्पन्नानि । शब्दगुणसहितमाकाशं शब्दस्पर्शगुणद्वयसमेतो वायुः शब्दस्पर्शरूपा. त्मकगुणत्रयसमेतोऽग्निः शब्दस्पर्शरूपरसात्मकगुणचतुष्टयसमेतं जलं शब्दस्पर्शरूपरसगन्धात्मकगुणपञ्चकसमेता पृथिवीति स्फुटार्थाः ॥ २३ ॥
मा०टी०-मनसे प्रयम शून्य, फिर वायु, अग्नि, जल और धरती, एकगुणकी वृद्धिके द्वारा 'पांच महाभूतको उत्पन्न करते हुए ॥ २३ ॥ अथ चन्द्रसूर्ययोः स्वरूपं वदन्पञ्चताराणामुत्पत्तिमाह
अग्नीषोमो भानुचन्द्रौ ततस्त्वङ्गारकादयः॥
तेजोभूखाम्बुबातेभ्यःक्रमशः पञ्च जज्ञिरे ॥ २४ ॥ सूर्यचन्द्रौ प्रागुदितोत्पत्ती अग्निपोमो सूर्योऽमिस्वरूपस्तेजोगोलकाश्चाक्षुषत्वात् । चन्द्र स्तु सोमस्वरूपः । मद्यस्य सामवाच्यत्वाजलगोलरूपः । अग्नीषोमाविति प्रयोगच्छान्दसिकः । ततोऽनन्तरमंगारकादयो भौमादयः पञ्चताराग्रहास्तेजोभूखाम्बुवातेभ्यः क्रमादुत्पन्नाः । तुकारादुक्तभूतस्य भागाधिक्यमन्यभूतानां च भागसाम्यमित्यर्थः । मंगल. स्तेजस उत्पन्नोऽत एवायमङ्गारक उच्यते । बुधो भूमितः । बृहस्पतिराकाशात् । शुक्रो जलात् । शनिर्वायोः ॥ २४ ॥
मा०टी०-अग्निसे मरवरूप, रवि, चन्द्र, आदिमें तोपरान्त मंगलादि ग्रहगण तेन, पृथ्वी भामाश जल वायुसे क्रमानुसार पांच उत्पन्न हुए ॥ २४॥ अथ राशीन्नक्षत्राणि चाह
पुनशधात्मानं व्यभजद्राशिसञ्ज्ञकम् ॥
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी ॥ २५ ॥ पुनरनन्तरमात्मानं द्वादशधा द्वादशस्थानेषु राशिसञ्जकं व्यभजत् । मनःकल्पितं वृत्तं द्वादशविभागं राशिवृत्तमकरोदित्यर्थः । भूयो द्वितीयारमात्मानं नक्षत्ररूपिणं सप्तविशात्मकं व्यभजत् । मनःकल्पितं तदेव वृत्तं सप्तविंशतिविभागं चाकरोदित्यर्थः । ननु न्यूनाधिकविभागाः कथं न कृता उक्तसङ्ख्यायां नियामकाभावादित्यत आहवशीति । इच्छाविषयं वशं विद्यते यस्येति वशी स्वतन्त्रेच्छस्य नियोगानहत्वात् । खेच्छया सत्संङ्ख्याका विभागाः कृता इति भावः । सप्तविंशतिविभागव्यञ्जकानि नक्षत्राणि तारात्मकानि निमितानीत्यर्थसिद्धम् ॥ २५ ॥
भा०टी०-वशी ब्रह्माने फिर मनसे कल्पित वृत्तको १२ भागमें राशिरूपसे और फिर २७ भागमें नक्षत्ररूपसे विमाग किया ॥ २५ ॥
भूतावकारकादयः इति वा पाठः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com