Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः १२. ] संस्कृतीका भाषाटीकासषेतः ।
अथ कथंचात्र सप्तपातालभूमय इति प्रश्नस्योत्तरमाहतदन्तरपुटाः सप्त नागासुरसमाश्रयाः ॥ दिव्यौषधिरसोपेता रम्याः पातालभूमयः ॥ ३३ ॥
तस्य भूगोलस्यान्तरपुटा मध्यस्थपुटा गुहारूपाः सप्तातलवितलसुतलादिकाः पातालभूमयः पातालप्रदेशा रम्या मनोहराः सन्ति । ननु भूगोले मनुष्यादिकमस्ति तथा तत्र के सन्तीत्यतस्तद्विशेषणमाह - नागासुरसमाश्रया इति । वासुकिप्रमुखादयः सर्पा दैत्या एषामाश्रयभूताः । ननु तत्र सूर्यसञ्चाराभावात्तमोमयत्वेन तत्स्थितलोकानां व्यवहारः कथं भवतीत्यतो द्वितीयं विशेषणमाह - दिव्यौषधिरसोपेता इति । दिव्या या औष धयः स्वप्रकाशास्तासां रसैर्युक्ताः । तथा च तत्प्रकाशेन व्यवहारो भवति तद्वशेन तल्लोकानां जीवनं च भवतीति भावः ॥ ३३ ॥
( १९७)
भा० टी०-भूगोल के अन्त में स्थित नागासुराश्रित पातालादि ७ भूमियें स्वप्रकाश वृक्षों से • युक्त और रमणीक हैं ॥ ३३ ॥ .
अथ भूगोलमुक्त्वा दक्षिणेत्तर भूव्यासाधिकप्रमाणमेरोरवस्थानमाहअनेकरत्ननिचयो जाम्बूनदमयो गिरिः || भूगोलमध्यगो नेरुरुभयत्र विनिर्गतः ॥ ३४ ॥
भूगोलमध्यगतः पर्वतो मेल्याने करत्ननिचयोऽनेकानि नानाविधानि पाणिक्यवज्रादीनि तेषां निचयः समूहा त्रासौ । जाम्बूनदमयो जाम्बूनदं । "जम्बूफलामल गल्सतः प्रवृत्ता जम्बूनदी रतदुता मृदभूत्सुवर्णम् । जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत्पिबन्त्यमृतपानानुभावाः ॥” इति भास्कराचार्योक्तेश्च सुवर्ण तन्मयः स्वर्णघटित उभयत्र व्यासारित भूपृष्ठप्रदेशाभ्यां विनिर्गतो बहिः स्थितदण्डाकारस्वर्णाद्रिमध्ये भूगोलः प्रोतोऽस्ति । अतएव भूभृदित्यन्वर्थसंज्ञ इति तात्पर्यार्थः ॥ ३४ ॥ भा० टी० - भूगोल के मध्यगा और उभय मेरुसे निकली हुई जम्बूनदीसे शोभित विविध रत्नका बना हुआ मेरु है ॥ ३४ ॥
अथ मेरोरूर्ध्वाधः प्रदेशयोर्देवादयोऽसुराश्च वसन्तीत्याहउपरिष्टात्स्थितास्तस्य सेन्द्रा देवा महर्षयः ॥ अधस्तादसुरास्तद्वद्दिषन्तोऽन्योन्यमाश्रिताः ॥ ३५ ॥
उपरिष्टात्स्थितास्तस्य सेन्द्रा इंद्रसहिता देवा इन्द्रादयो देवा महर्षयः । चः समुच्चयार्थोऽनुसन्धेयः । स्थिताः । अधस्तान्मेरोरधः प्रदेशे । असुरा दैत्याः । तद्वत् । यथोर्ध्वभागे देवास्तद्वदित्यर्थः । आश्रिता आस्थिताः । ननु देवासुरराचैकत्र कथं न स्थिता इत्यत आह- द्विषन्त इति । अन्योन्यं परस्परं द्वेषं कुर्वन्तः । तथा च देवासुरोः पर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262