Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 208
________________ ध्यायः १२] संस्कृतटीका-भाषाटीकासमेतः । भूवृत्तपादे पूर्वस्यां समकोटीति विश्रुता॥ भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥ ३८॥ याम्यायां भारत वर्षे लंका तन्महापुरी ॥ पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता ॥३९॥ उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता ॥ तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः॥४०॥ भूगोल उभयत्र दण्डाकारो मेरुर्यत्र निर्गतस्तत्स्थानाभ्याम् । वृत्ताकारसूत्रेणोर्ध्वाध. रेण भूगोलस्य खण्डद्वयं पूर्वापरं तिर्यग्वृत्ताकारं सूत्रेणोवधिोभूमेः खण्डद्वयं तेन भू. गोलेव प्राकाराश्चत्वारो भूम्यंशास्तत्रोर्ध्वस्थपूर्ववप्रे भूम्यां यः समुद्रपरिधिस्तस्य चतुर्थाशे भद्राश्वसंज्ञकवर्षे पूर्वस्मिन्नूवधिःशकलसन्धौ सुवर्णघटिताः प्रासादास्तोणानि च यस्यामेतादृशी पुरी यमकोटोति संज्ञया विश्रुता विख्याता याम्यायामूर्ध्वशकलद्वयसंधौ मेरुस्तस्य दाक्षिणत्वाद्भारतसञ्ज्ञवर्षे लंकासज्ञा महानगरी तद्वत स्वर्णप्राकारतोरणा विश्रुतेत्यर्थः । पश्चिमे पश्चिमशकलाधःस्थशकलसन्धौ के. तुमालसंज्ञे वर्षे रोमकसंज्ञा नगरी उक्ता । उदक् । अधाशकलयसन्धौ कुरुसज्ञकवर्षे सिद्धपुरीनाम नगरी प्रोक्ता । अस्याः पुर्याः सिद्धपुरीत्वमन्वमित्याहतस्यामिति । सिद्धपुर्या सिद्धा योगाभ्यासका अस्मदादिभ्यो महानुत्कृष्ट आत्मा येषां ते गतव्यथा दुःखरहिता निरन्तरा वसन्ति ॥ ३८ ॥ ३९ ॥ ४० ॥ भा०टी०-भूवृत्तके चतुर्थीशसे पूर्वदेशमें भद्राश्व वर्ष है, तिसमें यमकोटि पुरी है कहते हैं कि या सुवर्षकी भीत और तोरणोंसे वेष्टित है । दक्षिणदिशामें भारतवर्ष है; तिसके मध्यमें लंका महापुरी है । पश्चिमके बीच केतुमाळवर्षमें रोमक नगरी है। उत्तरमें कुरुवर्ष पुरीके बीच सिद्धपुरी स्थित है, तहां सिद्ध महात्मालोग सब कष्टोंसे छुटे हुए वास करते हैं।॥ ३८ ॥ ३९ ॥ ४० अथोक्तानां चतुर्णी पुराणां परस्परमन्तरालमव्यवहितं मेरोरासामन्तरं चाह भृवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः॥ . ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः ॥४१॥ ता उक्तनगर्योऽन्योन्यं परस्परं भूवृत्तपादविवरा भूगोलवृत्तपरिधिचतुर्थांशान्तरालाः प्रतिष्ठिताः सन्तीत्यर्थः । चकारः पूर्वोक्तेन समुच्चयार्थकः । ताभ्य उक्तपुरीभ्यः सकाशादुत्तरदिक्स्थो मेरुः पूर्वोक्तः सुराश्रयः देवैरधिष्ठितस्तावान्भूपरिधिचतु१ ताभ्यश्चोत्तरतो मेरुरिति वा पाठः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262