Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
( १९८ )
सूर्यसिद्धान्तः
[ दशमा
स्परं द्वेषसद्भावादेकत्रावस्थानासंभवेनोत्तमा देवास्तदूर्ध्वभागे स्थिता महर्षयश्च दैत्यभीवास्तंत्रैव स्थितास्तदधोभागे तन्निकृष्टा दैत्याः स्थिता इति भावः ॥ ३५ ॥
मा० टी० - ऊपर ( उत्तर दिशा ) में इन्द्रादि देवता और महर्षिगण स्थित हैं | नीचे ( दक्षिण में ) असुरोंका वास है । परस्पर में विद्वेष होनेके कारण दूसरी दिशा में आश्रय किया है ॥ ३५ ॥
अथ भूगोले समुद्रावस्थानमाह
ततः समन्तात्पारीधः क्रमेणायं महार्णवः ॥
मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ॥ ३६ ॥
दण्डाकारमेगेः सकाशादभितोऽयं प्रत्यक्षो महार्णवो महासमुद्रः क्रमेण निरन्तरालक्रमेण परिधिरूपो भूम्या मेखलेव काञ्चीरूपो देवासुरविभागकृत् देवदैत्ययोर्भूमिगोले विभागयोरवधिरेखारूप इत्यर्थः । तेन समुद्रादुत्तरं भूगोलस्यार्धं जम्बूद्वीपं देवानां समुद्रा दक्षिणं समुद्रातिरिक्तं भूमिगोलस्यार्धं षड्वीपषट् समुद्रोभयात्मकं दैत्यानामिति सिद्धम् । मेरुदण्डानुरुद्ध भूगोलमध्ये परिधिरूपो लवणसमुद्रोऽस्ति । उत्तरगोलार्धं दक्षि णभूगोलार्धार्न्तगतसमुद्रस्य प्रान्तपरिधिस्पृष्टमिति मरेखेलायाः कटयधः स्थितत्वेन तात्पर्यार्थः ॥ ३६ ॥
मा०टी०-तिसमें महासमुद्र घेरे के आकार से मेखलाको समान स्थित है । समुद्रने भूगोळ को देवार भूमि विभाग किया है || ३६ ||
अथ समुद्रोत्तरतटे परिधिरूपे जम्बूद्वीपारम्भे चतुर्विभागे चत्वारि नगरा सन्तीत्याह
समन्तान्मरुमध्यात्त तुल्यभागेषु तोयधेः ॥
द्वीपेषु दिक्षु पूर्वादि नगर्यो देवनिर्मिताः ॥ ३७ ॥
मेरुमध्याद्दण्डाकारमेरोर्मध्यप्रदेशाद्भूगोलगर्भात्मकादिति त्वर्थः । समन्तादभितो भूगोलपृष्ठे तोयधेः परिधिरूपसमुद्रस्य तुल्यभागेषु समभागेषु डीपेषु जम्बूद्वीपारम्भेषु दिक्षु चतुर्विभागेषु चतुर्दिक्षु पूर्वादिनगर्यो मेरोः पूर्वदक्षिणपश्चिमोत्तरदिक् क्रमेण चतुःपुर्यो देवनिर्मिता देवैः कृताः सन्तीति शेषः । समुद्रोत्तरतटे जम्बूद्वीपस्यादिभागरूपे तुल्यान्तरेण चत्वारि नगराणि भूगोलस्य कल्पितपूर्वादिदिशासु सन्तीति तात्पर्यार्थः
३७ ॥
माटी- मेरुमध्यप्रदेशमै घेरारूप समुद्रकी पूर्वादि चारों दिशाओं में देवताओंकी बनाई हुई चार हैं ॥ ३७ ॥
यथासां नामानि द्वीपोत्थितस्य जम्बूद्रीपादिभागस्थितवर्षाख्यपारिभाषिकविभागेष्वित्यर्थे च श्लोकत्रयेण विशदयति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262