Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 195
________________ ( १८६ ) सूर्यासद्धान्तः [ द्वादशोऽहे भगवन् भूभूमिः किम्प्रमाणा कियत्प्रमाणं यस्याः सा । किमाकारा कथमाकारः स्वरूपं यस्याः सा । किमाश्रया के आश्रयो यस्याः सा । किंविभागा कथं विभागा विभक्तांशा यस्याः सा । अत्र भूम्यां पातालभूमयः पातालविभागरूपा आश्रयाः सप्तसंख्याकाः कथं तिष्ठन्ति । चः समुच्चयार्थः । किमाकारेत्यादौ प्रत्येकमन्वेति । अयमभिप्रायः। 'योजनानि शतान्यष्टौ ' इत्यादिना वगत भूमानं पञ्चाशत्कोटिविस्तीर्णेति सर्वजनावगत भूमानाद्विन्नमिति त्वदुक्तभूमाने संशयात्किम्प्रमाणेति प्रश्नः । अन्यथा पूर्वं भूमानकथनात् । प्रश्नवैयर्थ्यापत्तेः उक्तश्रुतत्वापत्तेश्च । एवं लम्बज्याघ्न इत्यादिना स्पष्टपरिध्यन्तरसम्भवात्सर्वजनावग तादर्शाकारतायां भूमौ तदसम्भवेन मवदमिमतत्वाकारस्तदतिरिक्त इति किमाकारेति प्रश्नः । एवं तेन देशान्तराभ्यस्तेत्यादिना ग्रtri भूम्यभित भ्रमण सूचनादाधारे शेषादौ तेषामभितो भ्रमणासम्भवेनाधारे संशयात्किमाश्रयेति प्रश्नः । निराधाराया अवस्थानासम्भवात्। एतेन सर्वजनावगत भूस्वरू• पातिरिक्त भूस्वरूपेणोत्तरार्धप्रश्नावपि प्रसङ्गादुक्तौ सङ्गताविति ॥ २ ॥ मा०टी०-हे भगवन् ! इस पृथ्वीका परिमाण क्या है? आकार कैसा है ? किसके अ'अयले टिकी है ? क्या २ विभाग है । और किस प्रकार से इसमें सप्तपाताल और भूमि है ॥२॥ अथ किमाश्रयेतिप्रश्नकारणे भूम्यभितो ग्रहभ्रमणे सूर्यस्योपलक्षणत्वेन प्रश्नावाहअहोरात्रव्यवस्थां च विदधाति कथं रविः ॥ कथ पर्येति वसुधां भुवनानि विभावयन् ॥ ३ ॥ सूर्यः । अहोरात्रव्यवस्थां दिनरात्र्योर्विवेकं कथं केन प्रकारेण विदधाति करोति । व्ययं भावः । आदर्शाकारभूम्या मध्ये मेरुस्तदभितो भूम्युपरि प्रदक्षिणतया सूर्यभ्रमणेन स्वदृश्यविभागे सूर्ये दिनं स्वादृश्य विभागे रात्रिरिति सर्वजनावगताद्भवदभिप्रेतं सूर्यभ्रमणं भिन्नम् तर्हि त्वन्मते सूर्यो दिनं रात्रिं च व्यंवधायकाव्यवधायकौ विना कथं करोति । अन्ये ग्रहा अपि कथं स्वदिनं स्वरात्रिं च कुर्वीत । सूर्योपलक्षणत्वादिति । अथ भूम्यभिमतो भ्रमणांगीकारे भूरेव व्यवधायिकेत्यहोरात्रव्यवस्था युक्तैवेत्यतः प्रश्नान्त रमाह- कथमिति । सूर्यो भवनानि वक्ष्यमाणस्वरूपाणि विभावयन् प्रकाशयन् सन्वसुधां पृथ्वीं कथं केन प्रकारेण पर्येति प्रदक्षिणतया भ्रमति । भूमोनराधारावस्थानासम्भवेन साधारत्वे भूम्यभितो ग्रहण भ्रमणमाधारे बाधितमितिभावः ॥ ३ ॥ भा०टी०--और सूर्यनारायण किस प्रकारले दिनरातकी व्यवस्था करते हैं ? भुवनगणत्रकाश करके पृथ्वीपर कैसे पर्यटन करते हैं ? ॥ ३ ॥ प्रश्नावाह देवासुराणामन्योन्यमहोरात्रं विपर्ययात् ॥ किमर्थं तत्कथं वा स्याद्भानोर्भगणपूरणात् ॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262