________________
( १८६ )
सूर्यासद्धान्तः
[ द्वादशोऽहे भगवन् भूभूमिः किम्प्रमाणा कियत्प्रमाणं यस्याः सा । किमाकारा कथमाकारः स्वरूपं यस्याः सा । किमाश्रया के आश्रयो यस्याः सा । किंविभागा कथं विभागा विभक्तांशा यस्याः सा । अत्र भूम्यां पातालभूमयः पातालविभागरूपा आश्रयाः सप्तसंख्याकाः कथं तिष्ठन्ति । चः समुच्चयार्थः । किमाकारेत्यादौ प्रत्येकमन्वेति । अयमभिप्रायः। 'योजनानि शतान्यष्टौ ' इत्यादिना वगत भूमानं पञ्चाशत्कोटिविस्तीर्णेति सर्वजनावगत भूमानाद्विन्नमिति त्वदुक्तभूमाने संशयात्किम्प्रमाणेति प्रश्नः । अन्यथा पूर्वं भूमानकथनात् । प्रश्नवैयर्थ्यापत्तेः उक्तश्रुतत्वापत्तेश्च । एवं लम्बज्याघ्न इत्यादिना स्पष्टपरिध्यन्तरसम्भवात्सर्वजनावग तादर्शाकारतायां भूमौ तदसम्भवेन मवदमिमतत्वाकारस्तदतिरिक्त इति किमाकारेति प्रश्नः । एवं तेन देशान्तराभ्यस्तेत्यादिना ग्रtri भूम्यभित भ्रमण सूचनादाधारे शेषादौ तेषामभितो भ्रमणासम्भवेनाधारे संशयात्किमाश्रयेति प्रश्नः । निराधाराया अवस्थानासम्भवात्। एतेन सर्वजनावगत भूस्वरू• पातिरिक्त भूस्वरूपेणोत्तरार्धप्रश्नावपि प्रसङ्गादुक्तौ सङ्गताविति ॥ २ ॥
मा०टी०-हे भगवन् ! इस पृथ्वीका परिमाण क्या है? आकार कैसा है ? किसके अ'अयले टिकी है ? क्या २ विभाग है । और किस प्रकार से इसमें सप्तपाताल और भूमि है ॥२॥ अथ किमाश्रयेतिप्रश्नकारणे भूम्यभितो ग्रहभ्रमणे सूर्यस्योपलक्षणत्वेन प्रश्नावाहअहोरात्रव्यवस्थां च विदधाति कथं रविः ॥
कथ पर्येति वसुधां भुवनानि विभावयन् ॥ ३ ॥
सूर्यः । अहोरात्रव्यवस्थां दिनरात्र्योर्विवेकं कथं केन प्रकारेण विदधाति करोति । व्ययं भावः । आदर्शाकारभूम्या मध्ये मेरुस्तदभितो भूम्युपरि प्रदक्षिणतया सूर्यभ्रमणेन स्वदृश्यविभागे सूर्ये दिनं स्वादृश्य विभागे रात्रिरिति सर्वजनावगताद्भवदभिप्रेतं सूर्यभ्रमणं भिन्नम् तर्हि त्वन्मते सूर्यो दिनं रात्रिं च व्यंवधायकाव्यवधायकौ विना कथं करोति । अन्ये ग्रहा अपि कथं स्वदिनं स्वरात्रिं च कुर्वीत । सूर्योपलक्षणत्वादिति । अथ भूम्यभिमतो भ्रमणांगीकारे भूरेव व्यवधायिकेत्यहोरात्रव्यवस्था युक्तैवेत्यतः प्रश्नान्त रमाह- कथमिति । सूर्यो भवनानि वक्ष्यमाणस्वरूपाणि विभावयन् प्रकाशयन् सन्वसुधां पृथ्वीं कथं केन प्रकारेण पर्येति प्रदक्षिणतया भ्रमति । भूमोनराधारावस्थानासम्भवेन साधारत्वे भूम्यभितो ग्रहण भ्रमणमाधारे बाधितमितिभावः ॥ ३ ॥
भा०टी०--और सूर्यनारायण किस प्रकारले दिनरातकी व्यवस्था करते हैं ? भुवनगणत्रकाश करके पृथ्वीपर कैसे पर्यटन करते हैं ? ॥ ३ ॥
प्रश्नावाह
देवासुराणामन्योन्यमहोरात्रं विपर्ययात् ॥ किमर्थं तत्कथं वा स्याद्भानोर्भगणपूरणात् ॥ ४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com