________________
अध्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः। (१८५) तत्र यत्रयत्र तव संशयस्तत्रतत्र मत्सङ्कोचमुपेक्ष्य मां प्रति प्रश्नस्त्वया कार्यः । तव समाधानं करिष्यामीति भावः ॥ २३ ॥
भा० टी०-इस समय परमपवित्र ज्योतिष्क वर्गका महान जोर हितकर रहस्य कहा । अव क्या श्रवण करना चाहते हो ॥ २३ ॥
अथाग्रिमग्रन्थस्य प्रतिपादिताधिकारासंगतित्वपारहारायारब्धाधिकारसमाप्तिं फाकि कयाह-इति स्पष्टम् । दशभेदं ग्रहगणितामति दशाधिकारात्मकग्रन्थपूर्वार्धं पाताधिकारसमाप्त्यासमाप्तमिति तु पाताधिकारान्तस्थेनत्येतत्परमं पुण्यमित्यादिश्लोकेनैव सूचितम् । रंगनाथेन रचिते सूर्यसिद्धांतटिप्पणे । पाताधिकारः पूर्णोऽयं तद्गूढा' र्थप्रकाशके ॥ सूर्यसिद्धांतगूढार्थप्रकाशकमिदं दलम् ।रंगनाथकृतं दृष्ट्वा लभन्तां गणकाः सुखम् ॥ .. इति श्रीसकलगणकसार्वभौमबल्लालदेवज्ञात्मजरंगनाथगणकविरचिते गूढार्थप्रकाशके पूर्वखण्डं परिपूर्तिमगमत् ।
इति सूर्यसिद्धान्ते पाताधिकारः। एकादश अध्याय समाप्त ।
इति पूर्वखण्डम् । अथोत्तरखण्डे द्वादशोऽध्यायः। महादेवं वक्रतुण्डं वाणी सूर्य प्रणम्य च । कृष्णं गुरुं रङ्गनाथो व्याख्याम्युत्तरखण्डकम् ॥ अथमुनीन्प्रति सूर्यांशपुरुषवचनमनुवाद्यानन्तरं मयासुरेण सूर्यांशपुरुषः पृष्ट इत्याह
अथाकोशसमुद्भूतं प्रणिपत्य कृताञ्जलिः ॥
भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासुरः॥१॥ यथ सूर्याशपुरुषवचनश्रवणानन्तरं मयासुरो मयनामा श्रोता दैत्यः कृताञ्जलिः रचितहस्ताग्राञ्जलिपुटः । अर्काशसमुद्भूतं सूर्याशोत्पन्नं पुरुषं स्वाध्यापकं गुरुं परमयो. स्कृष्टया भक्त्या । आराध्यत्वेन ज्ञानरूपया । अभ्यर्च्य सम्पूज्य । प्राणपत्य नमस्कृत्य । समुच्चयार्थश्चकारोऽत्रानुसन्धेयः । इदं वक्ष्यमाणं पप्रच्छ पृष्टवान् ॥ १ ॥
मा० टी०-इसके उपरांत मयासुरने सूर्यके अंशसे उत्पन्न हुए पुरुषको हाथ जोड परमभक्तिसहित प्रणाम करके यह पूछा ।। १ ।। अथ किं पप्रच्छेत्यतस्तत्प्रश्नानुवादे प्रथमं तत्कृतं भूप्रश्नमाह
भगवन् किम्प्रमाणा भूः किमाकारा किमाश्रया ॥ किंविभामा कथं चात्र सप्त पातालभूमयः ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com