________________
(१८४) सूर्यसिद्धान्तः
[एकादशोऽप्रामाण्यान्न क्षतिः । अथवैकवाक्यताथपादशब्दः करनेत्रादिव हिसंख्यावाचकः । घटिका इत्यध्याहारश्च । तथा च द्विसंख्यामिता अंत्यघाटका नक्षत्रसंधयः । प्रथमद्विघटिकामितः कालो गण्डांतमित्यर्थः । अत्रापि गण्डांतत्वाद्भसंधिकथनमयुक्तं गण्डांतस्य तदंतरालरूपत्वात्तथापि तत्कालस्य निषिद्धत्वोक्तितात्पर्याविभागद्वयेनोक्तावपि तदंत्तरालकाला उत्तरोत्तरं कालस्यातिनिषिद्धत्वसूचनान्न श्रातः ॥२१॥
भा० टी०-आश्लेषा, ज्येष्ठा, रेवतीकाचौथा चरण भसन्धि और मश्विनी मघा और मूलक आदेपाद गण्डान्त है ॥ २१ ॥ अथैतदधिकारोक्तानां तुल्यनिषिद्धत्वमाह
व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा ॥
एतद्भसन्धित्रितयं सर्वकर्मसु वर्जयेत् ॥२२॥ व्यतीपातानां त्रयं योगवियोगात्मकौ क्रांतिसाम्यरूपौ द्वौ व्यतीपातौ । विषुवत्स. निधौ क्रांतिसाम्यांतरेण व्यतीपातस्तयोखे भेदः । न पृथक् । पञ्चांगांतर्गतयोगान्तर्ग तव्यतीपातश्चेति त्रयं स्पष्टम् । उपलक्षगावैधृतित्रयमपि । योगवियोगात्मको क्रांति साम्यरूपौ द्वौ वैधृतिसञौ । विषुवत्सन्निधौ क्रांतिसाम्यांतरेण । वैधृतिसञस्तु नयोरंतर्गतः । न पृथक् । पञ्चांगांतर्गतयोगांतर्गतवैधृतियोगश्चोत स्पष्टं त्रयम् । केचित्तु व्यतीपातवैधृतिसझं व्यतीपातद्वयं संज्ञाभेदेन वैधृतिरिति पूर्वमुक्तेः पञ्चांगातर्गतयोगी तर्गतव्यतीपातश्चति व्यतीपातत्रयमिति यथाश्रुतमाहुः । घोरं दुष्टं गण्डांतत्रयम् । तथा घोर नक्षत्रसन्धित्रयम् । एतत्पूर्वोक्तघोरम् । अतः कारणात्मर्वमांगल्यकर्मसु शुभेच्छरे तदुष्टं जह्यादित्यर्थः ॥ २२ ॥
भा० टी०-तीन, व्यतीपात तीन गण्डान्त, और तीन सन्धिगतकाल अतिदूषित हैं। इन्हैं सब काम त्यागै ॥ २२ ॥ अथाकीशपुरुषः शिष्टावशिष्टं स्ववाक्यमुपसंहरति
इत्येतत्परमं पुण्यं ज्योतिषां चरितं हितम् ॥
रहस्यं महदाख्यातं किमन्यच्छतुमिच्छसि ॥२३॥ हे मय तुभ्यमिति । एवमेतत् । शृणुष्वैकमना इत्यादिसर्वकर्मसु वर्जयेदित्यंत ज्योतिपां ग्रहनक्षत्रादीना चरितं माहात्म्यं गणितादिज्ञानामति यावत् हितमिह लोके कीर्तिकरं । परम पुण्यं परत्र लोक उत्कृष्टं धर्म्यम् । अतएव महद्रहस्यम् । अति. गोप्यमाख्यातं मया कथितम् । अथ स्वोक्तं युक्त्यप्रतिपादितमेतस्य मनसि निश्चि. तार्थ नागतमिति तदधरोष्ठस्फुरणदर्शनादनुमितं चास्मै मत्संकोचेन स्वाशंकोद्घाटनाशक्तायतं प्रश्नप्रतक्षिावसाने मया युक्त्यापि वक्तव्यमित्याशयेनाह-किमिति । अतःपरं त्वमन्यदुक्तातिरिक्तं किं कतरत् श्रोतुं ज्ञातुमिच्छसि । तथा च मया तुभ्यं पूर्वमुक्तं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com