________________
(१६० ) सूर्यासद्धान्तः
[ नवमो:उक्तेष्टकालांशयोरन्तरस्य कलाः सूर्यग्रहयोर्गत्योः कलात्मकान्तरेण भक्ताः । दिनादिकमुदयास्तयोः फलमुदयास्तयांर्गतैष्यादिनाद्यं भवतीत्यर्थः । वक्रगतिग्रहस्य विशेषमाह । लब्धमिति । वक्रिणो वक्रग्रहस्य भुक्तियोगेन सूर्यग्रहयोः कलात्मगतियोगेन मक्ताः फलं गतैष्यदिनाचं ज्ञेयम् । अत्रोपपात्तः । सूर्यग्रहयोर्गत्यन्तरकलाभिरेकं दिन तदेष्टप्रोक्तकलांशयोरन्तरकलाभिः किमित्यनुपातेनोदयास्तयोरभीष्टकालाद्गतैष्यादनाद्य. वगमः । वक्रग्रहे तु सूर्यग्रहयोगतियोगेन प्रत्यहमन्तरवृद्धतियोगादनुपात उपपन्न इत्युपपन्नमुक्तम् ॥ १० ॥
भा०टी०-अपने २ कालांशसे इष्टकालांश अलग करके कला बनाय भुक्त्यन्तरसे मागक रनेपर दिनादि फल होंगे वक्री होनेपर भुक्तियोग ग्रहण करना चाहिये ॥ १० ॥
अथ ग्रहगतिकलयोः क्रांतिवृत्तस्थत्वाकालांशान्तरस्याहोरात्रवृत्तस्थत्वाच्चानुपातः प्रमाणेच्छयोवैजात्येनायुक्त इति मनसि धृत्वा तयोरेकजातित्वसम्पादनाथै ग्रहगत्योरिच्छाजातीयत्वं वदंस्तदन्तरेणानुपातस्तु युक्त एवेत्याह
तल्लनासुहते मुक्ती अष्टादशशतोद्धृते ॥
स्यातां कालगती ताभ्यां दिनादिगतगम्ययोः ॥ ११॥ भुक्ती रविग्रहयोर्गती कलात्मके तल्लग्नासुहते कालसाधनाथ ग्रहस्य यो राश्युदयो ग्रहीतस्तेनास्गात्मकोदयेन गुणित अष्टादशशतेन भक्ते फले सूर्यग्रहयोः कालांशवत्काल गती स्याताम् । ताभ्यां गतिभ्यां गतगम्ययोरुदयास्तयादिनादिपूर्वोक्तप्रकारेण साध्यम् । नतुः पूर्वोक्तप्रकारेण यथास्थितगतिभ्यां स्थूलत्वापत्तेः । अत्रोपपत्तिः । एकराशिकलाभी राश्युदयासवस्तदा गतिकलाभिः कइत्यनुपातेनाहोरात्रवृत्ते गत्यसवः कलासमा इत्युपपन्नमुक्तम् ॥ ११ ॥
भा०टी०-दो भुक्तियों को उस लनप्राणसे गुणकरके १८०० से माग करनेपर काल गति होगी । तिसस ( १० श्लोकोक्त ) गत और गम्यदिनादिनिर्णय करे ॥ ११ ॥
अथ नक्षत्राणां सूर्यसान्निध्यवशादस्तोदयज्ञानार्थ कालांशान् विवक्षुः प्रथममे षामाह
स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः ॥
अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः ॥ १२ ॥ मृगव्याधो लुब्धकः । त्रयोदशभिः कालांशेर्दृश्यानि नक्षत्राणि भवन्ति । शेष स्पष्टम् ॥ १२ ॥
भा० टी०-स्वाती, अगस्त्य, मृगव्याध, चित्रा, ज्येष्ठा, पुनर्वसु, अभिजित, ब्रह्महृदय इनका वालांश १३ अंश हैं॥ ११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com