________________
अथान्येषामेषामाह
ध्यायः ९. ]
अथान्येषामेषामाह
हस्त श्रवणफाल्गुन्यः श्रविष्ठारोहिणीमघाः ॥ चतुर्दशांश कश्या विशाखाश्विनिदैवतम् ॥ १३ ॥
फाल्गुनी पूर्वोत्तराफाल्गुनीद्वयम् । अश्वितिदैवतमश्विनीकुमारो दैवतं स्वामी यस् त्यश्विनी नक्षत्रम् । दृश्या उपलक्षणाददृश्या अपि । लिंगपरिणामश्च यथायोग्यं बोध्यः शेषं स्पदृम् ॥ १३ ॥
मा० टी० - हस्त, श्रवण, उत्तराफाल्गुनी, पूर्वाफाल्गुनी, धनिष्ठा, रोहिणी, मधा, विशाखा और अश्विनी, इनका काळांश १४ अंश हैं ॥ १३ ॥
संस्कृत टीका-मापाटीका समेतः ।
कृत्तिका मूलानि सा रौद्रर्क्षमेव च ॥
दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा ॥ १४ ॥
कृत्तिकानुराधामूलनक्षत्राणि पञ्चदशभिः कालांशैर्दृश्यन्ते । उपलक्षणान्न दृश्यन्तेऽपि । एवकारो न्यूनाधिकव्यवच्छेदार्थः । आश्लेषार्द्रा । चः समुच्चये । आषाढद्वितयं पूर्वोत्तराषाढाद्वयं तथा पञ्चदशकालांशैर्दृश्यन्त इत्यर्थः ॥ १४ ॥
भा०टा० - कृत्तिका, अनुराधा, मूल, आश्लेषा, आद्री, और पूर्वाषाढ व उत्तराषाढ इनके १५ अंश हैं ॥ १४ ॥
अथान्येषामवशिष्टानां चाह
( १६१
भरणीतिष्य सौम्यानि सौक्ष्म्यात्रिः सप्तकांशकैः ॥
शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु ॥ १५ ॥
तिष्यः पुष्यः सोमदैवतं मृगशिरोनक्षत्रमेतानि नक्षत्राणि सौक्ष्म्यादणुविम्बत्वात् त्रिःसप्तकांश कैरेकविंशतिकालांशैर्दृश्यादृश्यानि । उदितान्यस्तंगतानि च भवन्तीत्यर्थः । शेषाणि पूर्वाधिकारोक्तनक्षत्रेषूक्तातिरिक्तानि शततारा पूर्वोत्तराभाद्रपदारेवतीसंज्ञानि । वह्निब्रह्मापांवत्साप सञ्ज्ञानि च सप्तदशभिः कालांशैर्दृश्यादृश्यानि भवन्ति तुकारो दृश्यादृश्यानीत्यत्र समुच्चयार्थकः ॥ १५ ॥
मा०टी० - भरणी, पुष्य, और मृगशिरा इनके सूक्ष्म होने से २१ अंश में, व अरे सब नक्षत्र १७ अंश में दिखाई देते है || १५ ||
अथ दिनाद्यानयनार्थमिच्छाया एव प्रमाणजातीयकरणत्वमाह
११
अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयातुभिः ॥ विभज्य लब्धाः क्षेत्रांशास्तर्दृश्यादृश्यताथवा ॥ १६ ॥ दृश्यांशाः कालांशा अष्टादशशतगुणितास्तान्स्वोदयासुभिर्ग्रह राश्युदयाभिभवत्वा रुन्धाः क्षेत्रांशाः क्रान्तिवृत्तस्थांशास्तैरंशैर्दृश्यादृश्यता । उदयास्तौ प्रकारान्तरेण.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com