SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ध्यायः ९.] संस्कृतटीका-भाषाटीकासमेतः । वक्री शीघ्रगतिः । चः समुच्चये । बुधः सूर्यावादशभिश्चतुर्दशभिश्च कालांशैरस्तोदयौ । एवं शुक्ररीत्या करोति । पश्चादस्तं प्रागुदयं च द्वादशभिः कालांशैर्महाविम्वतया बुधः करोति । प्रागस्तं पश्चादुदयं च चतुर्दशभिः कालांशैरणुबिम्बत्वाद्बुधः करोतीत्यर्थः ।। ८॥ मा० टी०-इस प्रकारसे बुध वक्री होनेपर सूर्य से १२ अंश और शीघ्रगति होनेपर १४ कालांशमें उदयास्त लाभ करता हे || ८ ॥ अथ प्रोक्तेष्टकालांशाभ्यामस्तस्योदयस्य वा गतैष्यत्वज्ञानमाह एभ्योऽधिकैः कालभागेश्या न्यूनैरदर्शनाः ॥ भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः ॥९॥ एभ्य एकादशामरेज्यस्येति श्लोकत्रयोक्तेभ्योऽधिकैरिष्टकालांशैश्या दर्शनयोग्या अभीष्टकाले ग्रहा भवन्ति । तथा चास्तसाधने दृश्यत्वे अस्त एण्यः । उदयसाधने दृश्यत्व उदयो गत इति भावः । अल्पैरिष्टकालांशैर्ग्रहा लोके भूलोके अदर्शना न विद्यते दर्शनं दृष्टिगोचरता येषां ते । अदृश्या अभीष्टकाले भवन्ति । नन्वदृश्याः कुतो भवन्तीत्यत आह-भानुभाग्रस्तमूर्तय इति । सूर्यासन्नत्वेन सूर्यकिरणदीप्त्या ग्रस्ता अभिभूता सूर्यकिरणप्रतिहतलोकनयनाविषया मूर्तिविम्बस्वरूपं येषां त इत्यर्थः । तया चास्तसाधन अदृश्यत्वेऽस्ता गतः । उदयसाधनेऽदृश्यत्व उदय एष्य इति भावः । अत एव “उक्तेभ्य ऊनाभ्याधका यदीष्टाः खेटोदयो गम्यगतस्तदा स्यात् । अतोऽन्यथा चास्तमयोऽनगम्यः" इति भास्कराचार्योक्तं संगच्छते । अत्रोपपत्तिः । उक्तकालांशे यत्काले ग्रहो साधितौ तत्काल एव ग्रहस्योदयोऽस्तो वार्ककृतः । उक्तकालां शानां सूर्यसान्निध्यजनिताद्यन्तग्रहादर्शने हेतुत्वप्रतिपादनात् । तथा चेष्टकालांशा उक्तभ्योऽल्पास्तदा ग्रहस्यास्तंगतत्वमेवेत्युदयसाधनइष्टकालांशा उक्तेभ्योऽल्पास्तदेष्टकालादो ग्रहस्योदयः । यदीष्टकालांशा उक्तेभ्योऽधिकास्तदेष्टकालाद्ग्रहस्योदयः पूर्व जातः। एवमस्तसाधन इष्टकालांशा अधिकास्तदेष्टकालादने ग्रहास्तः । यदीष्टकालांशा न्यूनास्तदेष्टकालात्पूर्व ग्रहास्तो जात इत्युपपन्नमुक्तम् ॥ ९ ॥ मा० ये०-सूर्य से उत्तर कहे हुए कालांशकी अपेक्षा अधिकतर में स्थित होनेपर दृश्य होता हैं, काम होनेपर जब सूर्यके तेजसे बिम्ब विरजाता है सब लोगोंको ग्रह दिखाई नहीं देते ॥९॥ अयोदयास्तयोर्गतैष्यदिनाद्यानयनमाह तत्कालांशान्तरकला भुत्त्यन्तरविभाजिताः॥ दिनादितत्फलं लब्धभुक्तियागेन वक्रिणः ॥ १० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy