Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 160
________________ ध्यायः ८.] संस्कृतटीका-भाषाटीकासमेतः । अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरण तो ॥ गोलं बध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम् ॥ १२ ।। स्वकीयात्क्रान्तिविभागस्थानादक्षिणस्यामशीत्यशैस्तारात्मकोऽगस्त्यो मिथुनान्तगः कर्कादिभागे स्थितः । अगस्त्यनक्षत्रस्य राशिवयं ध्रुवकाः । दक्षिणविक्षेपोऽशीतिरित्यर्थः । मृगव्याधो लुब्धको मिथुनराशेविंशतिभागे स्थितः । चकारः समुच्चये । लुब्धकनक्षत्रस्य राशिद्वयं विंशतिभागा ध्रुवक इत्यर्थः । दक्षिणस्यां चत्वारिंशता भागैः परिमितस्तस्य च क्रान्तिवृत्तस्थानाद्विक्षेपः । वृषराशौ वहिब्रह्महदयौ द्वाविंशभागास्थिता वह्निब्रह्महदयनक्षत्रयोविंशतिभागाधिकैकराशिध्रुवकः । तौ वहिब्रह्महृदयौ । अष्टाभिस्त्रिंशता । चकारः क्रमार्थे । एवकारो न्यूनाधिकव्यवच्छेदार्थः । उत्तरेणोत्तरस्यामि. त्यर्थः । विक्षिप्तौ विक्षेपवन्तौ । वह्नर्विक्षेपोऽष्टभाग उत्तरः । ब्रह्महदयस्योत्तरो विक्षेपस्त्रिंशदित्यर्थः । नन्वते ध्रुवा विक्षेपाश्च कालक्रमण नियता अनियता वेत्यत आहगोलमिति । मोलं वक्ष्यमाणं वध्वा वंशशलाकादिभिर्निवध्य स्फुटं विक्षेपं क्रांतिसं. स्कारयोग्यं ध्रुवाभिमुख ध्रुवकं स्फुटमायनकर्मसंस्कृतं परीक्षेत । स्वस्वकाले दृग्गोचरसिद्धमंगोकुरुत । तथा च क्रांतिसंस्कारयोग्यविक्षेपायनसंस्कृतध्रुवक्योरयनांशवशाद.. स्थिरत्वादपि मयेदानीन्तनसमयानुरोधेन लाघवार्थमायनकर्मसंस्कृता ध्रुवाः क्रांतिसं स्कारयाग्यविक्षेपाश्च नियता उक्ताः । कालान्तरे गोलयन्त्रेण वेधसिद्धा ज्ञेयाः। नैत इति भावः । गोलयन्त्रेण वेधस्तु गोलबन्धोक्तावधिना गोलयन्त्रं कार्यम् । तत्र खगो. लस्योपारे भगोलमाधारवृत्तस्योपरि विषुववृत्तम् । तत्र यथोक्तं क्रान्तिवृतं भगणांशाङ्कितं च बध्वा ध्वयष्टिकीलयोः प्रोतमन्यञ्चलं भवेधवलयम् । तच्च भगणांशाङ्कितं कार्यम् । ततस्तद्गोलयन्त्रं सम्यग्ध्रुशभिमुखयष्टिकं जलसमक्षितिजवलयं च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्टया वतीतारां विलोक्य क्रांतिवृत्ते मीनान्ताद्दशकलान्तरितपश्चाद्भागं रेवतीतारायां निवेश्य मध्यगतयैव दृष्टयाश्विन्यादेनक्षत्रस्य योगतारां विलोक्य तस्या उपरि तवेधवलयं निवेश्यम् । एवं कृते सति वेधवलयस्य क्रांतिवृत्तस्य च यः सम्पातः स मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा ज्ञेयाः । वेधवलये तस्यैव सम्पातस्य योगतारायाश्च यावन्तोऽन्तरेऽशास्तावन्तस्तस्य विक्षेपांशा दक्षिणा उत्तराः वा वेद्याः । अथ कदम्बप्रोतवेधवलयेन वेधे तु सदा स्थिरा ध्रुवका आयनहक्कासंस्कृताः । परन्तु कदम्बतारयोरभावादशक्यमिति यथोक्तवेधनवायनकर्म संस्कृता ध्रुवाः शराच ध्रुवाभिमुखाः स्फुटाः सिद्धा भवन्तीति दिक्॥ १० ॥ ११ ॥ १२ ॥ भाटा -अगस्त्यका ध्रुव ३० विक्षेपांश ८०६ । मृगव्याध ध्रुव २ । २० वि ४०।६ आग्ने ध्रुव १ | २२ वि० ८३ ब्रह्महदय ध्रुव १ . | २२ वि ३०३ | गोल बनाने में स्पष्ट वक्षेप मोर समस्त ध्रुवोंकी परीक्षा करे ॥ १० ॥ ११ ॥ १२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262