________________
ध्यायः ८.] संस्कृतटीका-भाषाटीकासमेतः ।
अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरण तो ॥
गोलं बध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम् ॥ १२ ।। स्वकीयात्क्रान्तिविभागस्थानादक्षिणस्यामशीत्यशैस्तारात्मकोऽगस्त्यो मिथुनान्तगः कर्कादिभागे स्थितः । अगस्त्यनक्षत्रस्य राशिवयं ध्रुवकाः । दक्षिणविक्षेपोऽशीतिरित्यर्थः । मृगव्याधो लुब्धको मिथुनराशेविंशतिभागे स्थितः । चकारः समुच्चये । लुब्धकनक्षत्रस्य राशिद्वयं विंशतिभागा ध्रुवक इत्यर्थः । दक्षिणस्यां चत्वारिंशता भागैः परिमितस्तस्य च क्रान्तिवृत्तस्थानाद्विक्षेपः । वृषराशौ वहिब्रह्महदयौ द्वाविंशभागास्थिता वह्निब्रह्महदयनक्षत्रयोविंशतिभागाधिकैकराशिध्रुवकः । तौ वहिब्रह्महृदयौ । अष्टाभिस्त्रिंशता । चकारः क्रमार्थे । एवकारो न्यूनाधिकव्यवच्छेदार्थः । उत्तरेणोत्तरस्यामि. त्यर्थः । विक्षिप्तौ विक्षेपवन्तौ । वह्नर्विक्षेपोऽष्टभाग उत्तरः । ब्रह्महदयस्योत्तरो विक्षेपस्त्रिंशदित्यर्थः । नन्वते ध्रुवा विक्षेपाश्च कालक्रमण नियता अनियता वेत्यत आहगोलमिति । मोलं वक्ष्यमाणं वध्वा वंशशलाकादिभिर्निवध्य स्फुटं विक्षेपं क्रांतिसं. स्कारयोग्यं ध्रुवाभिमुख ध्रुवकं स्फुटमायनकर्मसंस्कृतं परीक्षेत । स्वस्वकाले दृग्गोचरसिद्धमंगोकुरुत । तथा च क्रांतिसंस्कारयोग्यविक्षेपायनसंस्कृतध्रुवक्योरयनांशवशाद.. स्थिरत्वादपि मयेदानीन्तनसमयानुरोधेन लाघवार्थमायनकर्मसंस्कृता ध्रुवाः क्रांतिसं स्कारयाग्यविक्षेपाश्च नियता उक्ताः । कालान्तरे गोलयन्त्रेण वेधसिद्धा ज्ञेयाः। नैत इति भावः । गोलयन्त्रेण वेधस्तु गोलबन्धोक्तावधिना गोलयन्त्रं कार्यम् । तत्र खगो. लस्योपारे भगोलमाधारवृत्तस्योपरि विषुववृत्तम् । तत्र यथोक्तं क्रान्तिवृतं भगणांशाङ्कितं च बध्वा ध्वयष्टिकीलयोः प्रोतमन्यञ्चलं भवेधवलयम् । तच्च भगणांशाङ्कितं कार्यम् । ततस्तद्गोलयन्त्रं सम्यग्ध्रुशभिमुखयष्टिकं जलसमक्षितिजवलयं च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्टया वतीतारां विलोक्य क्रांतिवृत्ते मीनान्ताद्दशकलान्तरितपश्चाद्भागं रेवतीतारायां निवेश्य मध्यगतयैव दृष्टयाश्विन्यादेनक्षत्रस्य योगतारां विलोक्य तस्या उपरि तवेधवलयं निवेश्यम् । एवं कृते सति वेधवलयस्य क्रांतिवृत्तस्य च यः सम्पातः स मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा ज्ञेयाः । वेधवलये तस्यैव सम्पातस्य योगतारायाश्च यावन्तोऽन्तरेऽशास्तावन्तस्तस्य विक्षेपांशा दक्षिणा उत्तराः वा वेद्याः । अथ कदम्बप्रोतवेधवलयेन वेधे तु सदा स्थिरा ध्रुवका आयनहक्कासंस्कृताः । परन्तु कदम्बतारयोरभावादशक्यमिति यथोक्तवेधनवायनकर्म संस्कृता ध्रुवाः शराच ध्रुवाभिमुखाः स्फुटाः सिद्धा भवन्तीति दिक्॥ १० ॥ ११ ॥ १२ ॥
भाटा -अगस्त्यका ध्रुव ३० विक्षेपांश ८०६ । मृगव्याध ध्रुव २ । २० वि ४०।६ आग्ने ध्रुव १ | २२ वि० ८३ ब्रह्महदय ध्रुव १ . | २२ वि ३०३ | गोल बनाने में स्पष्ट वक्षेप मोर समस्त ध्रुवोंकी परीक्षा करे ॥ १० ॥ ११ ॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com