________________
सूर्यसिद्धान्तः
( १५२ )
अथ रोहिणीशक्टभेदमाह
वृषे सप्तदशे भागे यस्य याम्योंऽशकद्वयात् ॥ विक्षेपोऽभ्यधिको भिन्द्याद्रोहिण्याः शकटं तु सः ॥ १३ ॥
[ अष्टमी
वृषराशौ सप्तदशेऽशे यस्य ग्रहस्य भागद्वयाधिको विक्षेपो दक्षिणः स ग्रहो रोहियः शवटं शकटाकारसन्निवेशं भिन्द्यात् । तन्मध्यगतो भवेदित्यर्थः । तुकाराहविक्षेपो रोहिणीविक्षेपादल्प इति विशेषार्थकः । विक्षेपस्य दक्षिणस्य रोहिणीविक्षपादधिकत्वे शकट | वहिर्दाक्षिणभागे ग्रहस्य स्थितत्वेन तद्भेदकत्वाभावात् । अत्र शकटामिनक्षत्रस्य ध्रुव एकराशिः सप्तदशांशाः । दक्षिणः शरो भागद्वयमिति वेधसिद्धा स्पष्टा युक्तिः ॥ १३ ॥
भा०टी० - रोहिणी का शकटभेदकारी ग्रह वृषके १७ अंशम, और दो अंश दक्षिण विक्षेप स्थित हैं ॥ १३॥
अथ भग्रहयोगसाधनार्थं योगसाधनरीतिमाहग्रहनिशेभानां कुर्यादृक्कर्म पूर्ववत् ॥ ग्रहमेल कवच्छेषं ग्रहभुक्त्या दिनानि च ॥ १४ ॥
ग्रहवद्युनिशे ग्रहाणां यथा दिनरात्रिमाने आक्षरक्कमर्थं कृते तथा दिनमान - - त्रिमाने भानां नक्षत्रध्रुवकाणामाक्षदृक्कर्माथ गणकः कुर्यात् । तदनन्तरं पूर्ववन्नक्षेत्रनित्योदयास्तौ साधयित्वाऽभीष्टकाले दिनगतशेषाभ्यां नतं कृत्वा विषुवच्छाययाभ्यस्तावित्यादिनत्यर्थः । दृक्कर्म कुर्यात् । अत्र नक्षत्रध्रुव के पर्वतेनायनदृक्कर्माप्यु`दाहरणे कृतम् तदयुक्तम् । तस्य ध्रुवके स्वतः सिद्धत्वात् । तदनन्तरं शेषं नक्षत्रग्रहयुतिसाधनं ग्रहध्रुवतुल्यतां रूपं ग्रहमेलकवद्भहयोग साधनरीत्या ग्रहानन्तर कला इत्या - दिना कार्यम् । ननु तत्र “ ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः । भुक्त्यन्तरेण विभजेत्" इत्युक्तेर्नक्षत्रस्य का गतिग्रह्येत्यत आह- ग्रहभुक्तयति । केवलया ग्रहगत्या ग्रहस्य फलं ग्रहवान्तररूपग्रहे संस्कार्य ध्रुवसमा ग्रहो भवति । नक्षत्रस्य पूर्वगत्यभावाद्धुवो यथास्थित इत्यर्थः । तनुतयापि ग्रहनक्षत्रयुतिकालसाधनं भुक्त्यन्तरासम्भवात्कथं कार्यमिति मन्दाशङ्केत्यत आह- दिनानीति । अभीष्टसमय द्विवरमित्यादिना केवया ग्रहगत्या ग्रहनक्षत्रयुतिदिनानि साध्यानि । चः समुच्चये । नक्षत्राणां गत्यभाषात् ॥ १४ ॥
भा०टी० - ग्रहकी समान नक्षत्रोंके दिवारात्रिमान नुयायी टक्कर्म साधन करे | और समस्तग्रह युति समान करे । भुक्त्यन्तर के स्थान में ग्रहभुक्ति के ग्रहण करनेसे सब ठीक दो
जायगा || १४ ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com