________________
संस्कृतटीका - भाषाटीकासमेतः ।
अथाभीष्टकालाग्रहनक्षत्रयुतिकालस्य गतैष्यत्वमसम्भ्रमार्थे पुनराह - एष्यो हीने ग्रहे योगो ध्रुवकाधिक गतः ॥ विपर्ययागते हे ज्ञेयः समागमः ॥ १५ ॥
घ्यायः ८. ]
( १५३ )
नक्षत्रध्रुवादुक्ताग्रह आयनदृक्कर्म संस्कृतग्रह आक्षटकर्म संस्कृतनक्षत्रध्रुवकात् । दृक्कर्मदयसंस्कृत ग्रह इति विवेकार्थः । न्यूने सति योगो नक्षत्रग्रहयोगः स्वाभीष्टसमयाद्भावी । अधिके सति पूर्वं जातः वकगते ग्रहे विपर्ययादुक्तवैपरीत्यात्समागमो नक्षत्रग्रहयोगो ज्ञेयः । हीने ग्रहे गतोऽधिके ग्रह एष्यो योगः । अत्रोपपत्तिर्नक्षत्रस्य गत्यभावेन सदास्थिरत्वाग्रहगमनेनैव योगसम्भवादिति सुगमतरा ॥ १५ ॥
भा०टी० - नक्षत्र ध्रुवसे संस्कृत ग्रहन्यून होनेसे योग पीछे होगा, अधिक दानसे पहले होगया है । वक्रगति ग्रहका यह समागम विपरीत होता है ॥ १५ ॥
अथाश्विन्या दिनक्षत्रस्य बहुतारात्मकत्वात्कस्यास्ताराया एते ध्रुवका इत्यस्य योगताराया ध्रुवं किमित्युत्तरं मनसि धृत्वाऽश्विन्यादिनक्षत्राणां योगतारां विवक्षुः प्रथममेषां नक्षत्राणां योगतारामाह
फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः ||
विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता ॥ १६ ॥
एषामुक्तनक्षत्राणां प्रत्येकं स्वतारासु योत्तरदिवस्था तारा सा योगतारा गोलतत्त्वज्ञैरुक्ता ॥ १६ ॥
मा० ट ० - दोनों फाल्गुनी, दोना भाद्रपद, और पूर्वाषाढा, उत्तराषाढा, विशाखा, अश्विनी और मृगशिर, इनके उत्तर स्थित ताराओंको योगतारा कहते हैं ॥ १६ ॥
अथान्ययोरनयोराह
पश्चिमोत्तरतारा या द्वितीया पश्चिमे स्थिता ॥
हस्तस्य योगतारा सा श्रविष्ठायाश्च पश्चिमा ।। १७ ॥
हस्तनक्षत्रं पञ्चतारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशाकारम् । तत्र नैर्ऋत्यदिगाश्रितपश्चिमावस्थितताराया उत्तरदिगवस्थितताराया द्वितीया पूर्वोक्तातिरिक्ता पश्चिमे वायव्याश्रिते स्थिता सा हस्तस्य योगतारा ज्ञेया । उत्तरतारासन्ना पश्चिमाश्रिता तारा हस्तस्य योगतारेति फलितार्थः । धनिष्ठाया योगतारामाह - श्रविष्ठाया इति । धनिष्ठायास्तारासु या पश्चिमदिकस्था सा तस्या योगतारा । चः समुच्चये ॥ १७ ॥
भी० टी० - पंचतारात्मक हस्तनक्षत्र के पश्चिमोत्तर तारेके पश्चिम में स्थित हुआ तारा हस्तका योग तारा है और घनिष्ठा के पश्चिम स्थिततास घनिष्ठाका योगतारा है ॥ १७ ॥
१ विपर्ययात इति वा पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com