Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 119
________________ i l (११०) . सूर्यसिद्धान्तः [पंचमोऽमुक्तेश्च । नत्यभावस्थानमाह-अक्षेत्यादि । अक्षांशा उत्तरा ये मध्यभस्य मध्यलग्रस्य क्रान्त्यंशाः । अत्र मध्यलग्नशब्देन दशमभावास्त्रभोनलग्नं वा ग्राह्यमुभयपक्षेऽप्यदोषः । अनयोस्तुल्यत्वेऽवनतेनतेः । अपिशब्दात्सम्भवो न । अभाव इत्यर्थः । नत्वपिशब्दालम्बनस्यापि तत्राभावः । उत्तरक्रान्त्यक्षयोस्तुल्यत्वे मध्यलग्नतुल्यार्कवाभावेऽपि तद. भावापत्तेः । अत्रोपपत्तिः । अमावास्यान्तकाले समौ सूर्यचन्द्रौ । तत्र चन्द्रशराभावे भूगर्भान्नीयमानं भूसूत्रमर्कस्थानावधि चन्द्रं स्पृशत्येवोत भूगर्भेच्छादकत्वं चन्द्रस्य सूर्यस्य च्छाद्यत्वं सम्भवति । तत्र मनुष्याणामसत्त्वाडू पृष्ठे तेषां सत्त्वाच्च भूपृष्ठान्नीयमानमर्कोपरि सूत्रं चन्द्रे न लगत्येव। किन्तु चन्द्राधिष्टानगोले चन्द्रचिह्नादूर्ध्व लगति । तत्र यदा चन्द्र आयाति तदा भूपृष्ठे सूर्यस्य चन्द्रश्छादको भवति । यदा तु खमध्ये सूर्यरतदा भूगर्भसूत्रं भूपृष्ठसूत्रं च सूर्योपरिगमेकमेव चन्द्रे लगतीति भूपृष्ठेऽमान्तकाले चन्द्रश्छादको भवति । अतएव भूगर्भपृष्ठसूत्रान्तरं लंबनम् । भूपृष्ठसूत्रात्सू र्योपरिगाचन्द्राधिष्ठानाकाशगोले चन्द्रस्य शरसत्त्वे चन्द्रचिह्नस्य वा लम्बितत्वात् । अतएव भास्कराचार्यैरुक्तम् 'दृग्गर्भसूत्रयोरैक्याखमध्ये नास्ति लम्बनम् ॥' इति । अथ चन्द्राधिष्ठानगोले भूपृष्ठसूत्रमर्कोपरिगतं चन्द्रचिदादूर्व चन्द्रदृग्वृत्ते यदशैलंगति तल्लम्बनं दृग्वृत्ताकारकक्रांतिवृत्ते भवति । यया तु दृग्वृत्ताद्भिन्नं क्रांतिवृत्तं तदा भूपृष्ठसूत्रं चन्द्राधिष्ठानगोले चन्द्रग्वृत्ते चन्द्रादूर्ध्वं यत्र लग्नं तत्र चन्द्रगोलस्थक्रांतिवृत्तयाम्योत्तर रूपकदम्बप्रोतवृत्तमानीय चन्द्रगोलस्थक्रांतिवृत्ते यत्र लग्नं तच्चन्द्रचिह्नयोरन्तरं क्रांतिवचे पूर्वापरं स्फुटलम्बनकलाः कोटिः। चन्द्रस्य क्रान्तिवृत्तानुसारेण गमनात्मोतवृत्ते क्रांतिवृत्तदृग्वृत्तयोरन्तरं याम्योत्तरं कलात्मकं नतिर्भुजः । भूगर्भपृष्ठसूत्रान्तरं दृग्वृत्ते कलात्मकं दृग्लम्बनं कर्णः । दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे क्रान्तिवृत्ते तयोरन्तरा. भावालम्बनाभावः । याम्योत्तरमन्तरं दृग्लम्बनं नतिरेवोत्पन्ना । दृग्वृत्ताकारक्रान्तिवृत्ते तु दृग्लंबनमेव क्रांतिवृत्ते तयोरन्तरमिति लम्बनमुत्पन्नंनत्यभावश्च । तथा च दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे त्रिभोनलग्नस्थानेऽर्को भवति । तदृत्तस्य क्रान्तिवृत्तयाम्योत्तरत्वेनोदयास्तलग्नमध्यवर्तित्वेन लग्नस्थानात् त्रिभान्तरितत्वात् । नहि क्रान्तिवृत्ताद्याम्योचरान्तरज्ञानार्थसमप्रोतवृत्तमङ्गीकार्यम् । येन दशमभावतुल्यार्के लम्बनाभाव उपपत्रः स्यात् । क्रान्तिवृत्तस्य गोलवृत्तत्वेन समप्रोतवृत्तस्य देशवृत्तत्वेन सम्बन्धाभावात् । अतएव भगवता सर्वज्ञेन नतिसाधनार्थमग्रे दृक्क्षेपः कदम्बप्रोतवृत्ते त्रिभो नलग्नस्यैव साधितः । दृकूक्षेपाभावे त्रिभोनलग्नस्य खमध्यस्थत्वेन तदा तस्य दशमभावतुल्यत्वेन दशमभावनतांशाभावाक्षेपाभावः । तदा त्रिभोनलग्नस्य नतांशाभावश्च । नतांशाभावस्त्वक्षांशतुल्योत्तरकांन्तौ सुखार्थ स्थूलांगीकारे तु दशमभावस्यैव नतांशोन्नतज्ये क्षेपदृग्गती नतिलम्बनयोः साधनार्थ समनन्तरमेव भगवतोक्ते तु वस्तुरूपे । आयासेन हक्षेपसाधनस्योक्तस्य वैयापत्तेरिति सर्व निवद्यम् ॥ १ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262