________________
i l
(११०) . सूर्यसिद्धान्तः
[पंचमोऽमुक्तेश्च । नत्यभावस्थानमाह-अक्षेत्यादि । अक्षांशा उत्तरा ये मध्यभस्य मध्यलग्रस्य क्रान्त्यंशाः । अत्र मध्यलग्नशब्देन दशमभावास्त्रभोनलग्नं वा ग्राह्यमुभयपक्षेऽप्यदोषः । अनयोस्तुल्यत्वेऽवनतेनतेः । अपिशब्दात्सम्भवो न । अभाव इत्यर्थः । नत्वपिशब्दालम्बनस्यापि तत्राभावः । उत्तरक्रान्त्यक्षयोस्तुल्यत्वे मध्यलग्नतुल्यार्कवाभावेऽपि तद. भावापत्तेः । अत्रोपपत्तिः । अमावास्यान्तकाले समौ सूर्यचन्द्रौ । तत्र चन्द्रशराभावे भूगर्भान्नीयमानं भूसूत्रमर्कस्थानावधि चन्द्रं स्पृशत्येवोत भूगर्भेच्छादकत्वं चन्द्रस्य सूर्यस्य च्छाद्यत्वं सम्भवति । तत्र मनुष्याणामसत्त्वाडू पृष्ठे तेषां सत्त्वाच्च भूपृष्ठान्नीयमानमर्कोपरि सूत्रं चन्द्रे न लगत्येव। किन्तु चन्द्राधिष्टानगोले चन्द्रचिह्नादूर्ध्व लगति । तत्र यदा चन्द्र आयाति तदा भूपृष्ठे सूर्यस्य चन्द्रश्छादको भवति । यदा तु खमध्ये सूर्यरतदा भूगर्भसूत्रं भूपृष्ठसूत्रं च सूर्योपरिगमेकमेव चन्द्रे लगतीति भूपृष्ठेऽमान्तकाले चन्द्रश्छादको भवति । अतएव भूगर्भपृष्ठसूत्रान्तरं लंबनम् । भूपृष्ठसूत्रात्सू र्योपरिगाचन्द्राधिष्ठानाकाशगोले चन्द्रस्य शरसत्त्वे चन्द्रचिह्नस्य वा लम्बितत्वात् । अतएव भास्कराचार्यैरुक्तम् 'दृग्गर्भसूत्रयोरैक्याखमध्ये नास्ति लम्बनम् ॥' इति । अथ चन्द्राधिष्ठानगोले भूपृष्ठसूत्रमर्कोपरिगतं चन्द्रचिदादूर्व चन्द्रदृग्वृत्ते यदशैलंगति तल्लम्बनं दृग्वृत्ताकारकक्रांतिवृत्ते भवति । यया तु दृग्वृत्ताद्भिन्नं क्रांतिवृत्तं तदा भूपृष्ठसूत्रं चन्द्राधिष्ठानगोले चन्द्रग्वृत्ते चन्द्रादूर्ध्वं यत्र लग्नं तत्र चन्द्रगोलस्थक्रांतिवृत्तयाम्योत्तर रूपकदम्बप्रोतवृत्तमानीय चन्द्रगोलस्थक्रांतिवृत्ते यत्र लग्नं तच्चन्द्रचिह्नयोरन्तरं क्रांतिवचे पूर्वापरं स्फुटलम्बनकलाः कोटिः। चन्द्रस्य क्रान्तिवृत्तानुसारेण गमनात्मोतवृत्ते क्रांतिवृत्तदृग्वृत्तयोरन्तरं याम्योत्तरं कलात्मकं नतिर्भुजः । भूगर्भपृष्ठसूत्रान्तरं दृग्वृत्ते कलात्मकं दृग्लम्बनं कर्णः । दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे क्रान्तिवृत्ते तयोरन्तरा. भावालम्बनाभावः । याम्योत्तरमन्तरं दृग्लम्बनं नतिरेवोत्पन्ना । दृग्वृत्ताकारक्रान्तिवृत्ते तु दृग्लंबनमेव क्रांतिवृत्ते तयोरन्तरमिति लम्बनमुत्पन्नंनत्यभावश्च । तथा च दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे त्रिभोनलग्नस्थानेऽर्को भवति । तदृत्तस्य क्रान्तिवृत्तयाम्योत्तरत्वेनोदयास्तलग्नमध्यवर्तित्वेन लग्नस्थानात् त्रिभान्तरितत्वात् । नहि क्रान्तिवृत्ताद्याम्योचरान्तरज्ञानार्थसमप्रोतवृत्तमङ्गीकार्यम् । येन दशमभावतुल्यार्के लम्बनाभाव उपपत्रः स्यात् । क्रान्तिवृत्तस्य गोलवृत्तत्वेन समप्रोतवृत्तस्य देशवृत्तत्वेन सम्बन्धाभावात् । अतएव भगवता सर्वज्ञेन नतिसाधनार्थमग्रे दृक्क्षेपः कदम्बप्रोतवृत्ते त्रिभो नलग्नस्यैव साधितः । दृकूक्षेपाभावे त्रिभोनलग्नस्य खमध्यस्थत्वेन तदा तस्य दशमभावतुल्यत्वेन दशमभावनतांशाभावाक्षेपाभावः । तदा त्रिभोनलग्नस्य नतांशाभावश्च । नतांशाभावस्त्वक्षांशतुल्योत्तरकांन्तौ सुखार्थ स्थूलांगीकारे तु दशमभावस्यैव नतांशोन्नतज्ये क्षेपदृग्गती नतिलम्बनयोः साधनार्थ समनन्तरमेव भगवतोक्ते तु वस्तुरूपे । आयासेन हक्षेपसाधनस्योक्तस्य वैयापत्तेरिति सर्व निवद्यम् ॥ १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com