________________
अन्यायः५] संस्कृतटीका-भाषाटीकासमेतः । (१०९) इत्यनुपातागतफलयुक्तं त्रयं कला एकांगुलमानमभीष्टकाले । तत्र दिनार्धभक्तोन्नतकालस्य फलरूपत्वात्रयाणां समच्छेदतया योजने त्रिगुणितं दिनार्ध साँधैकगुणदिनमा नरूपमुन्नतकालयुक्तं दिनार्धभक्तामति सिद्धम् । तत एतत्कलाभिरेकांगुलं तदेष्टकलाभिः किमित्यनुपातन कलात्मकानामगुलीकरणमुक्तमुपपन्नम् ॥ २६ ॥ __ भा०टी०-दिनमानमें निजके भई और उन्नतघटिका योग करके दिनाईसे भागकरनेपर जो फल होगा, तिस्से कलादि विक्षेप बिम्बमान भादिको मागकरनेसे अंगुलादि होंगे ॥ २६॥ __ अथानिमग्रन्थस्यासङ्गतित्वनिरासार्थमधिकारसमाप्तिं फक्किकयाह-स्पष्टम् ।। रंगना थन रचिते सूर्यसिद्धान्तटिप्पणे । चन्द्रग्रहाधिकारोऽयं पूर्णो गूढप्रकाशके ॥ इति श्रीसकलगणकसार्वभौमवल्लालदैवज्ञात्मजरंगनाथगणकावराचतेगूढार्थप्रकाशके चन्द्रग्रहंणाधिकारः पूर्णः ॥
इति चन्द्रग्रहणाधिकारः। .
चतुर्थोऽध्यायः समाप्तः।
अथ पंचमोऽध्यायः। अथ सूर्यग्रहणाधिकारो व्याख्यायते । तत्र यत्पदार्थविशेषप्रयुक्तश्चन्द्रग्रहणाधिकारातिरिक्तः सूर्यग्रहणाधिकारस्तद्विशेषयोरभावस्थानादेवोत्पत्तिनियमात्तयोरभावस्थानकथनव्याजेन तयोरुद्देशमाह
. मध्यलनसमे भानो हरिजस्य न सम्भवः ॥ __ अक्षोदङ्मध्यभक्रान्तिसाम्येनावनतेरपि ॥ १॥ सूर्येऽमावास्यान्तकालिके मध्यलग्नसमे सति दिनमध्यस्थान ऊर्ध्वयाम्योत्तरवृत्ते लग्नः क्रांतिवृत्तप्रदेशो मध्यलग्नं त्रिप्रश्नाधिकारोक्तम् । तत्तुल्ये सति मध्याह्न इति फलितम् । हरिजस्य लम्बनस्य भूपृष्ठक्षितिजवशालम्बनोत्पत्तेलंबनस्यापि क्षितिजवाचकहरिजशब्देनाभिधानात्सम्भव उत्पत्तिन । तत्र लम्वनाभाव इत्यर्थः । अथ मध्याह्नइति स्फुटोक्त्यपेक्षया मध्यलग्नसम इति वक्रोक्तिः कृपालोभगवतो नोचितेत्यग्रिमग्रन्थार्थतत्त्वविचारणयापि मध्याह्न तदभावानुपपत्तेः साम्प्रदायिकव्याख्यामनादृत्य तत्त्वार्थो व्याख्यायते । लग्नयोरुदयक्षितिजास्तक्षितिजप्रदेशयोः संलग्नक्रांतिवृत्तप्रदेशयोर्मध्यम् । ऊर्ध्वमध्यप्रदेशस्त्रिभोनलग्नमित्यर्थः । प्रयोगस्तु मध्याह्न इतिवत् । तत्तुल्येऽर्के लम्बनस्याभाव इति । “दर्शान्तलग्नं प्रथमं विधाय न लम्बनं वित्रिभलग्नतुल्ये । वौ तदनेऽभ्याधिके च तत्स्यादेवं धन% क्रमशश्च वेद्यम् ॥” इति भास्कराचार्येण स्फुट
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com