________________
सूर्यसिद्धान्तः
( १०८ ) [ चतुर्थोऽचिह्नात् त्रिभान्तरितक्रान्तिवृत्तप्राची यदन्तरेण तदायनं वलनम् । ततुल्यमेवेतर दिशामन्तरम् । उत्तरायणस्थे ग्रह उत्तरं दक्षिणायनस्थे ग्रहे दक्षिणम् । नत्वयनसंधावभावात्म कम् । गोलसन्धौ परमक्रान्तितुल्यमतः सत्रिभक्रान्तितुल्यं सत्रिभग्रहगोलदिक्कामित्युपपन्ने राशित्रययुताद्भाह्यात्कास्यंशैरिति । द्वयोर्वलन योरकेदिक्त्वे समवृत्तमाचीतः क्रान्तिवृतप्रचीतद्योगरूपस्फुटवलनान्तरेण वलनादाशे भवति । भिन्नदिक्त्वे तु वलनान्तररूयस्फुटवलनान्तरेण शेषदिशि भवति । तज्ज्यस्फुटवलनज्या त्रिज्यावृत्ते । अग्रे परिलेख एकोनपञ्चाशन्मितव्य | सार्द्धवृत्ते दानार्थं त्रिज्यावृत्त इयं तदैकोनपञ्चाशन्मितं व्यासार्द्ध केत्यनुपाते प्रमाणेच्छयोरिच्छा पवर्तनाद्धरस्थानेऽधोवयवत्यागात्सप्ततिः । अतो दिक्समै
इत्याद्युपपन्नम् ॥ २४ ॥ २५ ॥
1 मा० टी० - ग्रस्तकी नवी हुई ज्याको अक्षज्यासे गुणकर के त्रिज्यासे भागकरने पर जो ज्या होगी तिससे धनुकरनेपर वलनांश होगा नतके पूर्वापर के अनुसारसे वलन उत्तर दक्षि में स्थिर करना चाहिये || २४ || तीन राशिवाले ग्रस्तग्रहस्फुटकी निर्देश करे । वलनशि और उत्क्रान्ति एकदिशा में होनेसे योग, अन्यथा अन्तर करनेसे स्फुट वलन है । स्फुट बलनन्या ७० से भागकरनेपर भागफल भंगुलादिक वलनग्रस्त ग्रहका होगा ॥ २५ ॥
अथ कलात्मकबिम्बविक्षेपादीनामंगुलीकरणमाहसोन्नतं दिनमध्यर्थं दिनार्घाप्तं फलेन तु ॥ छिन्द्याद्विक्षेपमानानि तान्येषामंगुलानि तु ॥ २६ ॥
दिनमानमध्यर्धमर्ध इत्यध्यर्धे स्वार्धयुक्तमित्यर्थः । अभीष्टकालिकोन्नतघटीभिः सहितं दिनार्धेन भक्तं फलेन । तुकारो यद्ग्रहणं तस्य दिनमानोन्नते ग्राह्ये इत्यर्थकः वि क्षेपग्राह्यग्राहकबिम्बमानानि । तानि पूर्वोक्तानि कलात्मकानि । ग्रासादिकमपि ध्येयम् । भजेत् । तुकारात्फलमेषां कलात्मकानामङ्गुलानि भवन्ति । अत्रोपपत्तिः । उदयास्तकाले बिम्बकिरणानां भूमिगोलावरुद्धत्वेनाल्पोर्ध्वस्थ करणानां नयनप्रतिहननार्हत्वाद्विम्बं व्यक्तत्वान्महद्भासते । तत्रांगुलात्मकं बिम्बकलात्रयात्मकै कांगुलप्रमाणेन भवति । मध्यस्थे ग्रहे तु बिम्बस्य सर्वकिरणावरुद्धत्वान्नयनप्रतिघाताच्च सूक्ष्मं विम्बं भासते तत्रांगुलात्मकं बिम्बं कलाचतुष्टयात्मकैकांगुलप्रमाणेन भवति । तत्रोदयास्तकाले शङ्कोरभावात्खमध्ये तस्य त्रिज्यातुल्यत्वात्रिज्यातुल्यशङ्कावुदयकालिकैकांगुलमानस्य कलात्रयस्यैकांगुलमुपचयो लभ्यते तदेष्टशङ्कौ कइत्यनुपातेनाभीष्टकाले फलं युक्तम् । त्रयमेकांगुलस्य कलात्मकं मानं भवति । rara भास्कराचार्यैरुदयास्तकाले सार्द्धद्वयं कलांगुलमानमंगीकृत्य “त्रिज्योद्धृतस्तत्समयोत्थशंकुः सार्धंद्वियुक्तोऽङ्गुललिप्तिकाः स्युः इत्युक्तम् । तत्र भगवता लोकानुकम्पया स्वल्पान्तरत्वाच्च मध्याह्नेऽपि कला - चतुष्टयात्मकमेकांगुलमंगीकृत्य दिनांर्धतुल्य परमोन्नत काल एकापचयस्तदेष्टोन्नतकाले क
""
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com