SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ध्यायः ५] संस्कृतटीका-भाषाटीकासमेतः । (१११) भा० टी०-सूर्यस्फुट मध्यलग्न सम होनेसे लम्बनका सम्भव नहीं होता.। उत्तर-अक्षांश और दशमकी क्रान्तिसाम्यमै अवनतिकीभी सम्भावना नहीं है ॥ १ ॥ अथोद्दिष्टयोरभावस्थानातिरिक्तस्थाने सम्भवात्प्रतिपादनं प्रतिजानीते देशकालविशेषेण ययावनतिसम्भवः॥ लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यते ॥२॥ देशविशेषेण कालविशेषेणावनतिसम्भवो नतिकालोत्पत्तिर्गोलस्थित्या यथा भवति । लम्बनस्यापि समुच्चये त्रिभोनलग्नस्थानात् पूर्वापरदिगनुरोधात् चकारात्सम्भवो देशकालविशेषेण यथा भवतीत्यर्थः । तथा तत्तुल्येन नतिलम्बने आनयनद्वारा मया कथ्यते ॥ २॥ मा०टी०-देशकालके उपरोक्त न होनेसे जो अवनति होती है और मध्यरेखाके पूर्व या पश्चिम होनेके वशसे जो लंपन होता है, सो इस समय कहता हूं ॥२॥ तत्रोपयुक्तामुदयाभिधामाह लग्ने पर्वान्तनाडीनां कुर्यात्स्वैरुदयासुभिः ।। तज्ज्यान्त्यापक्रमज्यानी लम्बज्याप्तोदयाभिधा ॥३॥ स्वैः स्वदेशीयैरुदयासुभी राश्युदयासुभिः पर्वघटिकानां लग्नं गणकः कुर्यात् । पर्वान्तकालिकं लग्नं साध्यमित्यर्थः । यद्यपि' पूर्व लग्नसाधनं स्वोदयैरेवोक्तमिति स्वैरुदयासुभिरिति व्यर्थ तथापि समनन्तरमेव दशमभावसाधनोत्तया कस्यचिल्लग्नं व्यक्षोदयेखात्र साध्यमिति भ्रमस्य वारणाय पुनरुक्तिः । तस्य लग्नस्यायनांशसंस्कृतस्य ज्याभुजज्यापरमक्रान्तिज्यया गुण्या स्वदेशीयलम्बज्यया भक्ताफलमुदयसझं स्यात् । अत्रोपपत्तिः । लग्नक्रान्तिज्यासाधनाथ लग्नभुजज्यायाः परमक्रान्तिज्यागुणस्त्रिज्या हरस्ततो लंबज्याकोटौ त्रिज्याकर्णस्तदा लग्नक्रान्तिज्याकोटौ कः कर्ण इत्यनुपाते त्रिज्ययो नाशाल्लमभुजज्या परमक्रान्तिज्या गुणालम्बज्यया भक्ताफलं लग्नस्याया। इयं भगवतोदयसझोक्ता लग्नस्योदयसंज्ञत्वात् । उदयसम्बन्धाचेत्युक्तमुपपन्नम् ॥ ३ ॥ भाल्टी-स्वदेशीय उदयप्राणसे पर्वान्तकालकी ( सायन ) लग्न गिने । तिसकी भुज न्याको परमापक्रमज्या ( १३९७) से गुणकरके स्वदेशीय सम्बज्यासे भाग करनेपर उदय होगा ॥३॥ अथोपयुक्तां मध्यज्यां सार्धश्लोकेनाह तदा लकोदयेर्लनं मध्यसझं यथोदितम् ॥ तत्क्रान्त्यक्षांशसंयोगो दिक्ताम्येऽन्तरमन्यथा ॥ शेषं नताशास्तन्मौर्वी मध्यज्या साभिधीयते ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy