________________
(११२) सूर्यसिद्धान्तः
[ पञ्चमो-- तदा पन्तिकाले लङ्कोदयैर्व्यक्षदेशीयराश्युदयैर्यथोदितं पूर्वोक्तमकारेण जातकपद्धत्युक्तनतघटीभिर्धनमृणं यथायोग्यं मध्यसझं लग्नं दशमभावात्मकं साध्यम् । अत्र ल. नसम्बन्धेन स्वदेशराश्युदयासु ग्रहणशङ्कावारणाय लंकोदौरित्युक्तम् । तस्य दशमभावस्यायनांशसंस्कृतस्य क्रान्तिः स्वदेशाक्षांशाः । अनयोर्योग एकदिक्त्वे कार्यः । अन्यथा भिन्नदिक्त्त्वेऽन्तरं तयारखे शेषं संस्कारजदिकानतांशास्तेषां ज्या, कार्या सा मध्यलग्ननतांशज्या मध्यज्योच्यते तत्सम्बन्धात् । अत्रोपपत्तिः स्पष्टा ॥ ४॥
भा०टी०-तदुपरान्त लङ्कोदयप्राणसे (सायन ) मध्यलग्न (दशम ) साधन करै । मध्य_ लग्नकी क्रान्ति और अक्षांश एक मोर होनेसे योग भार भन्यथा वियोग करनेसे शेषनतांदा होता है, तिसकी ज्या करनेसे मध्यज्या होती है ॥ ४॥
अथाभ्यामुपयुक्तं दृक्क्षेप लम्बनोपयुक्तां दृग्गतिं च सार्धश्लोकेनाहमध्योदयज्ययाभ्यस्ता त्रिज्याप्तावर्गितं फलम् ॥५॥ मध्यज्यावर्गविश्लिष्टं दृक्षः शेषतः पदम् ॥ तत्रिज्यावर्गविश्लेषान्मूलं शकुः सदृग्गतिः॥६॥ पूर्वोक्तमध्यज्या पूर्वानीतोदयाभिधयोदयज्यया । अस्या ज्यारूपत्वाज्ज्ययेत्युक्तम् । गुणितात्रिज्यया भक्तफलं वर्गितं वर्गः मञ्जातो यस्य तत् । फलस्य वर्गः कार्य इत्यर्थः । मध्यज्यायावर्गे विश्लिष्टं हीनं वर्गितं फलं कार्यम् । शेषान्मूलं दृक्क्षेपः स्यात् । दृक्क्षेपत्रिज्ययोयौं वर्गों तयोरन्तरान्मूलं शंकुः स आनीतः शंकुदिग्गतिसञो भवति । नतु शंकुमात्रम् । अत्रोपपत्तिः । त्रिभोनलग्नस्य गूज्यानयनाथ क्षेत्रम् । मध्यलग्नहग्ज्याकर्णस्त्रिभोनलग्नस्य याम्योत्तरवृत्तात् प्रागपरस्थितत्वेन तत्वस्वस्तिकान्तरस्थिततदीयदृग्वृत्ते प्रदेशांशज्या कोटिः । मध्यलग्नत्रिभोनलग्नान्तरांशज्याक्रान्तिवृत्तस्थो भुजः । अत्र भुजानयनं चोदयलग्नस्थक्रांतिवृत्तप्रदेशः । प्रास्वस्तिकात्तदग्रान्तरेणोत्तरदक्षिणो भवति एवमस्तलग्नप्रदेशः परस्वस्तिकाद्दक्षिणोत्तरः । तदनुरोधेन च त्रिभोनलग्रप्रदेशक्रांतिवृत्तीययाम्योत्तरवृत्तरूपतग्वृत्तं क्षितिजे याम्योत्तरवृत्तक्षितिजसम्पातात्तदाग्रान्तरेण लग्नमवश्यं भवति । अतस्त्रिज्यातुल्यमध्यलग्नग्ज्यया लग्नाग्रातुल्यो भुज. स्तदाभीष्टतदृग्ज्यया कइत्यनुपातेन सफलसज्ञः । तदर्गोनान्मध्यलग्नग्ज्यावर्गान्मूलं त्रिभोनलग्नस्य दृग्ज्या हक्क्षेपाख्या। एतदर्गोनात् त्रिज्यावर्गान्मूलं त्रिभोनलग्नशंकुईग्गतिसज्ञः । अत्रेदमवधेयम् । त्रिप्रश्नाधिकारोक्तमकारेण त्रिभोनलग्नस्य शंकुदृग्ज्ये दृग्गतिहक्क्षेपतुल्ये न भवतः । किन्तु दृग्गतिक्षेपाभ्यां क्रमेण न्यूनाधिके भवतः सर्वदा धूलोकर्मणानुभवात् । अत आनीतोऽयं दृक्क्षेपत्रिभोनलग्नदृमण्डल स्थिताऽपि न त्रिज्यानुरुद्धः । 'किन्तु फलवर्गोनत्रिज्यावर्गपदरूपविलक्षणवृत्तव्यासाई प्रमाणेन सिद्ध इति गम्यते ॥ अतो गज्यायास्त्रिज्यानुरुद्धत्वेन त्रिज्यावृत्तपरिणतो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com