SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ध्यायः ५.] संस्कृतटीका-भाषाटीकासमेतः । दृक्षपस्त्रिभोनलग्नस्य दृगूज्यास्फुटदृक्क्षेपरूपा । अस्यास्तत्रिज्यावर्गेत्यादिना दृग्गतिः स्फुटा त्रिभोनलग्नशंकुरूपा । एतदनुक्तिः स्वल्पान्तरत्वाद्गणितसुखाथै कृपालुन कृता । त्रिप्रश्नक्रियागौरवाभियैतन्मार्गान्तरं लाघवादुक्तमिति दिक् ॥५॥६॥ भान्टो०-मध्यज्याको पहली कही हुई उदयज्यासे गुण करके त्रिज्यासे भाग करके बर्ग करता हुआ मध्यज्यावर्गसे वियोग करके मूल करनेसे हक्क्षेप होगा, हक्क्षेपवर्ग भार त्रिज्या वर्गका अन्तर शंकवर्ग है. तिसके मूलको दृक्गति कहते हैं ॥ ५ ॥६॥ अथ लाघवाक्क्षेपदृग्गती गणितसुखार्थं श्लोकार्धेनाह नतांशबाहुकोटिज्ये स्फुटे हक्क्षेपहरगती ॥ दशमभावनतांशानां भुजकोटयोर्नतांशतदूननवतिरूपयोरनयोज्यै क्रमेण दृक्क्षेपदृग्गती अस्फुटे स्थूल । यद्वा स्फुटे प्रागुक्ते इक्षेपदृग्गती विहाय गणितलाघवा थै दशमभावनतांशभुजकोटयोये तत्स्थानापन्ने ग्राह्ये । यत्तूदयज्याभाव नतांशबाहकोटिज्ये दृक्क्षेपदृग्गती स्फुटे इतिः । तन्न । उक्तप्रकारेणैतत् सिद्धेस्तत्कथनस्य व्यर्थत्वात् । अत्रोपपत्तिः । त्रिभोनलनस्य दशमभावासन्नत्वेन दशमभावस्य याम्योत्तरवृत्तस्थत्वेन लाघवार्थ दशमभावमेव त्रिभोनलग्नं प्रकल्प्य तन्नतांशज्यामध्यज्यारूपा त्रिभोनलग्नहक्क्षेपः । उन्नतज्याशंकुर्दग्गतिः । इदमतिस्थूलम् । यैस्तु भगवतोक्तं मध्यलग्नं दशमभावपरतया व्याख्यातं तेषां मते एतदुक्तमिति सूक्ष्मम् । प्रयाससाधितहक्षेपदृग्गती प्रागुक्ते सूक्ष्मे अप्यतिस्थूले इति ध्येयम् । भास्कराचा न । "त्रिमोनलग्नस्य दिनार्धजाते नतोन्नतज्ये यदि वा सुखार्थम् ” इति यदुक्तं तदस्मात्सममिति ध्येयम् ॥ भा०टी०-स्थूलपक्षमें दशम उनके नताशकी वाहु और कोटिज्याको दृक्षेप और दृग्गति समझा जाता है ॥ अथ लम्बनोपयुक्तच्छेदकथनपूर्वकं लम्बनानयनं साईश्लोकेनाह एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया ॥७॥ मध्यलपार्कविश्लेषज्याछेदेन विभाजिता ॥ रवीन्दोर्लम्बनं ज्ञेयं प्रापश्चाइटिकादिकम् ॥८॥ एकराशिज्याया वगादृग्गतिजीवया प्रागुक्तहग्गत्या । दृग्गतेस्त्रिशंकुरूपत्वेन या पत्वाजीवयेति स्वरूपप्रतिपादनम् । भागहरणेन लब्धं छेदसंज्ञ: स्यात् । अथ मध्यलग्नं त्रिभोनलग्नं दर्शान्तकालिकं नतु दशमभावः तात्कालिकः सूर्यः अनयोरन्तरस्य त्रिभानथिकस्य ज्याछेदेन प्राक्साधितेन भक्ता फलं घटिकादिकं प्रापश्चात्रि १ प्राक्पश्चाद्घटिकादितत्इति वा पाठः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034621
Book TitleSurya Siddhant
Original Sutra AuthorN/A
AuthorBaldevprasad Mishra
PublisherGangavishnu Krishnadas
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy