________________
( ११४ )
सूर्यसिद्धान्तः
[ पञ्चमो -
भोनलग्नरूपमध्यलग्नस्थानात्पूर्वा परविभागयोः सूर्यचन्द्रयोस्तुल्यं लम्बनं ज्ञेयम् । अत्रोपपत्तिः । “त्रिभोनलग्नार्कविशेषशिञ्जिनीकृता हता व्यासदलेन भाजिता । हतात्फला द्वित्रिभग्नशंकुना त्रिजीवयाप्तं घटिका दिलम्वनम् ॥” इति सिद्धांतशिरोमणी सूक्ष्मं लम्बनानयनमुक्तम् । तस्योपपत्तिस्तट्टीकायां सुप्रसिद्धा । मध्यलग्नस्य त्रिभोन पर - त्वेन व्याख्यानान्मध्यलग्नार्क विश्लेषज्यात्रिभोनलग्ना कविश्लेषशिञ्जिनीरूपा जाता । इयं चतुर्गुणात्रिभोनलग्नशंकुरूपदृग्गत्या च गुण्या त्रिज्यावर्गेण भाज्येति लंबनानयनप्रकारेण सिद्धम् । तत्र चतुखिज्यावर्गयोर्गुणहरयोर्गुणापवर्त्तनेन हरस्थाने एको रा शिज्यावर्गः सिद्धः । अत्रापि दृग्गत्येक शिज्यावर्गौ गुणहरौ गुणेनापवर्त्यहरस्थाने एकज्यावर्ग इत्यादिना छेद उपपन्नः । हरस्य च्छेदाभिधानात् । अतो मध्यलग्नात्याद्युक्तमुपपन्नम् । लंबनघटीभिरुभयोश्चालनं वक्ष्यमाणगणित आवश्यकीमीत सूचनायें रवीन्द्रोवनमित्युक्तम् । अन्यथा दर्शान्तकाले सूर्यगतभूपृष्ठसूत्राच्चन्द्रकक्षायां चन्द्रचिह्नस्य तद्वटी भिलबितत्वाद्वयोरुक्त्यनुपपतिः । त्रिभोनलग्नसमेऽर्के लंबनाभावात्पूर्वापर विभागै सूर्ये सति लंबनं भवतीति प्राक्पश्चादित्युक्तम् । अत्रेदमवधेयम् । लम्बनानयने मध्यलग्नस्य त्रिभोनलग्नेत्यर्थे छेदः पूर्वसाधितसूक्ष्मढग्गत्या सूक्ष्मो नतांशेत्यादिगृहीतस्थूलहग्गत्या स्थूल इति । एवं मध्यलग्नेत्यस्य दशमभावाथ तु विपरीतमिति । एतेन मध्यलग्नेत्यस्य दशमभावार्थः । तत्र प्रयाससा - घितसूक्ष्मदृग्गत्या सूक्ष्मं लम्बनम् । नतांशेत्याद्युक्तस्थूलदृग्गत्या स्थूललम्बनामति साम्प्रदायिकोक्तं निरस्तम् । युक्त्यभावात् । नचात्र मध्यलग्न रूपदशमभावगृहेऽपि गोलयुक्त्या प्रतिपादनस्य सत्त्वात्कथमादित्योक्तं मध्यलग्नमिति पदं सार्वजनीनदशमभावप्रत्यायकं त्रिभोनलग्नपरतया हठाद्वयाख्यांतुं युक्तम् " नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपग्गती ” इत्यत्र स्फुटे इत्यनेन भगवतस्तदाशयस्य व्यक्तीकृतत्वादिति वाच्यम् । तथापि गौरवसाधित कक्षेपोक्तिर्भगवदाशयस्थितत्रिभोनलग्नग्रहणं व्यनक्ति । अन्यथा प्रयाससाधितदृक्क्षेपस्य वैयर्थ्यापत्तेरिति सुधियावलोक्यमित्यलं विस्तरेण
॥ ७ ॥ ॥ ८ ॥
मा० टी० एकराशिज्या वर्गको हग्गति (ज्या) द्वारा भाग करनेसे छेद होगा । मध्यलग्न और तिस कालका सूर्यका अन्तर करके: ज्या करे, तिसको छेदसे भाग करनेपर मध्यग्रसे पूर्वापर विचार करके रविसे चंद्रमाके लम्बन दण्डादि स्थिर होंगे || ७ || ८ ॥
अथ मध्यग्रहणकालज्ञानार्थं तिथौ लम्बनसंस्कारं तदसकृत्साध्यमिति चाह..मध्यमाधिके भाना तिथ्यन्तात्प्रविशोधयेत् ॥ धनमूनेऽसकृत्कर्म यावत्सर्व स्थिरीभवेत् ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com