________________
घ्यायः ५.] संस्कृतटीका-भाषारकासमतः । (११५)
सूर्ये मध्यलग्नं त्रिभोनलग्नं तस्मादधिके सति तिथ्यन्ताद्दशतिथ्यन्तकालादागतं लम्बनं शोधयेत् । सूर्ये त्रिभोनलग्नान्न्यूने सति तिथ्यन्तकाले लम्बनं धनं युतं कार्यम् । एवं कर्मगणितमसकृन्मुहुः कार्यम् । अयमर्थः । तिथ्यन्तकालिकः सूर्यो लम्बनघटीभिः क्रमेण पूर्वाग्रिमकाले चाल्पो लम्बनसंस्कृततिथ्यन्तेऽर्को भवति । तस्माः ल्लम्बनसंस्कृततिथ्यन्तकाले लग्नदशमभावौ प्रसाध्य पूर्वोक्तरीत्या लम्बनं साध्यम् । इदमाप केवलतिथ्यन्ते संस्कार्याक्तरीत्या लम्बनं केवलं तिथ्यन्ते संस्कार्यम् । अस्मा. दपि लम्बनं तिथ्यन्ते संस्कार्यमित्यसकृदिति । गणितावधिमाह-यावदिति । सर्व गाणत लम्बनादि यावद्यत्परिवर्तावधि स्थिरीभवेत् । अविलक्षणं यावदविशेष इत्यर्थः । अत्रोपपत्तिः । दर्शान्तकाले रविगतभूपृष्ठसूत्राचन्द्रस्याधोलम्बितत्वेन त्रिभोनलग्नादने खौ क्रान्तिवृत्ते पूर्वापरान्तराभावनैकसूत्रस्थितत्वरूपयुर्तिर्दान्तकालालम्बनकालेना भवति । शीध्रगचन्द्रस्य मा गरवितः पृष्ठे स्थितत्वात् । अधिके खौ चन्द्रस्य पुरः स्थितत्वेन दर्शान्तकालालम्बनकालेन पूर्व युतिर्भवति । अतो दर्शान्तकालो लम्बन संस्कृतो मध्यग्रहणकालः स्यात् । युतिकालस्य मध्यग्रहणकालत्वात् । परन्तु तावता लम्बनकालेन सूर्यस्यापि ऋन्तिवृत्ते चलनालम्बनसंस्कृतदर्शान्तकाले विगतभूपृष्ठसत्राचन्द्रस्य लम्बितत्वं स्यादेवेति मध्यग्रहणकालस्त्वसिद्धः । नहि सूर्यो धनलम्बनऋणलम्बने चन्द्रश्च लम्बनकाले स्थिरो येन तयोर्युतिः सङ्गता स्यात् । अतस्तादृशकालात्पुनस्तात्कालिकं लम्बनं प्रसाध्य दर्शान्ते पुनः संस्कार्यम् । मध्यकालः स्यात् । एवं तादृशलम्बनसंस्कृतदर्शान्तेऽपि तयोभूपृष्ठसूत्रस्थत्वाभावात्पुनलम्बनं साध्यम् । तत्संस्कृतो दर्शान्तो मध्यग्रह इत्यसकृविधिना यदालम्बनं पूर्वलम्बनतुल्यं सिध्यति तदावश्यं तादृशलम्बनसंस्कृतदर्शान्तरूपमध्यग्रहणकाले भूपृष्ठसूत्रे तयोः सनिवेशः । यतस्तदा सूर्यगतभूपृष्ठसूत्रचन्द्रयोरेन्तराभावेन पूर्वागतलम्बनतुल्यलम्बनस्य पुनः सिद्धः । अन्यथा तुल्यलम्बनानुपपत्तेः । तस्मान्मध्यकालोऽसकृद्यावदविशेषः साध्यइत्युपपन्नं मध्यलग्नत्यादि ॥९॥
मा० टी० - मध्यलग्नसे सूर्य अधिक हो तो तिथ्यन्तसे काल-लम्बन अलग करे, नहीं हो अन्यथा योग करे । प्राप्त समयके ऊपर फिर लम्बन साधन करके तिथ्यन्त में संस्कार करे। जबतक स्थिर न हो तबतक ऐसाही करे ॥ ९ ॥ अथ नतिसाधनमाह
हक्क्षेपः शीततिग्मांशोमध्यभुत्त्यन्तराहतः॥
तिथिनस्त्रिज्यया भक्तो लब्धं सावनतिर्भवेत् ॥ १० ॥ हक्क्षेपः प्रागानीतः शीततिग्मांशोश्चन्द्रार्कयोमध्यगती कलात्मके तयोरन्तरेण गुणि: तया त्रिज्यया भक्तः फलं सा देशकालविशेषाभ्यां या गोले सिद्धा भवति सैवात्र गणिों
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com