________________
( ११६ )
सूर्यसिद्धान्तः
[ पंचमोडनतिर्भवेत् । अत्रोपपत्तिः । यदा क्रांतिवृत्तं दृग्वृत्ताकारं तदा नत्यभाव इति प्रागुक्तम् । तत्र त्रिभोनलग्नस्य खमध्यस्थत्वेन दृक्क्षेपाभावः । यत्र च षष्टचक्षांशास्तत्र देशे त्रिभो - नलग्नस्य क्षितिजस्थत्वेन परमा नतिः । परमास्तु नतिकल। भूगर्भक्षितिजा पृष्टक्षितिजस्य भृव्यासाधन्तरेणोच्छ्रितत्वाद्वतियोजनैर्गत्यन्तरकला लभ्यन्ते तदा भूव्यासार्धयोजनैः का इत्यनुपातेन तत्र मध्यगतियोजनानां भूव्यासार्धस्य व नियंतत्वाद्द्रव्यासार्धेनापवर्तःकृतः। तेन मध्यगत्यन्तरकलानां स्वल्पान्तरेण पञ्चदशांशः परमा नतिकलाः । अत एव षष्टिघटिकानां पञ्चदशांशो घटिकाचतुष्टयं परमं लम्भनं सिद्धम् । आभित्रिज्यातुल्यकक्षेपे सूर्यगतभूपृष्ठसूत्राच्चन्द्रस्य दक्षिणोत्तरेणावलम्बनं भवति । अतत्रिज्यातुल्यहक्क्षेपेण 'मध्यगत्यन्तरपञ्चदशांशो नतिस्तदेष्टदृक्क्षेपेण कत्यनुपाते गत्यन्तरगुणों दृक्क्षेपो हरघातेन पञ्चदशगुणितत्रिज्यात्मकेन भक्तो नतिकला इत्युपपन्नम् ॥ १० ॥ मा० टी० टक्क्षेत्रको रविचन्द्रमध्यभुक्त्यन्तरसे गुण करके १५ गुणित - त्रिज्यासे भाग करने पर अवनति स्थिर होगी ॥ १० ॥
अथ प्रकारान्तराभ्यां नतिसाधनं लाघवादाहहकूक्षेपात्सप्ततिहृताद्भवेद्वावनतिः फलम् ॥
अथवा त्रिज्या भक्तात्सप्तसप्तकसङ्गणात् ॥ ११ ॥
सप्तत्या भक्तादृक्क्षेपात्फलं कलादिका नतिः प्रकारान्तरेण भवेत् । अथवा प्रकारान्तरेण सप्तसप्तकसंगुणात्सप्तानां सप्तकं सप्तवारमावृत्तिर्वर्ग एकोनपञ्चाशदित्यर्थः । तेन गुणिता हक्क्षेपात्रिज्या भक्तात्फलं कलादिका नतिः । अत्रोपपत्तिः । दृक्क्षेपस्य गत्यन्तरकलांमित ७३ । २७ गुणकपञ्चदश गुणित त्रिज्यामितहरौ ५१५७० प्रथमप्रकारे गत्यन्तरापवर्त्तिती हरस्थाने सप्ततिः । द्वितीयप्रकारे पञ्चदशभिरपवर्त्य गुणस्थाने स्वल्पान्तरादेकोनपञ्चाशद्धरस्थाने त्रिज्येत्युपपन्नम् ॥ ११ ॥
मा०टी० - अथवा टक्क्षेपको ७० से भाग करनेपर वही होगा; या ४९ से गुण करके त्रिज्या से माग करने पर भी होजायगा ॥ ११ ॥
अथ नतेर्दिग्ज्ञानं स्पष्टविक्षेपं चाह
मध्यज्यादिग्वशात्सा च विज्ञेया दक्षिणोत्तरा ॥
विपदिकसा युक्ता विश्लेषितान्यथा ॥ १२ ॥
सावनतिर्मध्यंज्याया दिगनुरोधादक्षिणोत्तरा मध्यज्या चेदक्षिणा तदा नतिरपि दक्षिणा चेदुत्तरा तदोत्तरा ज्ञेया । चः समुच्चये । तेन मध्यज्यानतांशदिक्केति । सा दक्षिणोत्तरा नतिश्चन्द्रविक्षेप दिक्समत्वे । तयोरेकादिक्त्वे इत्यर्थः । युक्ता विक्षेपेण युतेत्यर्थः । अन्यथा तयोर्भिन्नदिक्त्वे विक्षेपेणान्तरिताशेषदिक्काविक्षेपसंस्कृता नतिः स्पष्टशररूपा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com