Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 157
________________ (१४८) सूर्यसिद्धांत: [ अष्टमोऽवा पाठस्त्वयुक्तः । शाकल्यसंहिताविरोधात् । एतेन सौरोक्तरुद्रमस्यांशास्यद्रयोगान्धयः कला इति नार्मदोक्तं दशकलोनपञ्चदशभागा मिथुने सर्वजनाभिमतध्रुवको दशकलायुतत्रयोदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः। पुनर्वसोरष्टसप्ततिः। पुष्यस्य षट्सप्ततिः । आश्लेषायाश्चतुर्दश । तथेति छन्दःपूरणार्थम् । मघायाश्चतुःपञ्चाशत् । पूर्वाफाल्गुन्याश्चतुःषष्टिः । उत्तराफाल्गुन्याः पञ्चाशत् । हस्तस्य षष्टिः । चित्रायाश्चत्वारिंशत् । स्वात्याश्च चतुःसप्ततिः । विशाखाया अष्टसप्ततिः । अनुराधायाश्चतुःषष्टिः । ज्येष्ठायाश्चतुर्दश । अनन्तर मूलस्य षट् । पूर्वाषाढायाश्चत्वारः । उत्तराषाढाया ध्रुवकमाह-वैश्वामिति । उत्तराषाढा योगतारानक्षत्रम् । आप्याभोगगम् आप्यस्य पूर्वापाढानक्षत्रस्यार्धभोगः । धनराशेविंशतिभागस्तत्रस्थितं ज्ञेयम् । अष्टौ राशयो विंशतिमागा उत्तराषाढाया ध्रुव इत्यर्थः । एतेन पूर्वाषाढायोगतारायाः सकाशादुत्तराषाहायोगताराविंशतिकलोनसप्तभागान्तारता। तेन पूर्वाषाढाध्रुवकोऽष्टराशयश्चतुर्दशभागा विंशतिक्लोनसप्तमागैर्युत उत्तराषाढाया- ध्रुवश्चत्वारिंशत्कलाधिकोक्त ध्रुव इति पर्वतोक्तमपास्तम् । ब्रह्मसिद्धांतविरोधात् । अभिजिद्धृवकमाह-आप्यस्येति । पूर्वाषढाया अवसाने धनुराशेविंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया । चत्वारिंशत्कलाधिकषाविंशतिभागाधिका अष्टौ राशयोऽभिजितो ध्रुव इत्यर्थः । एक्कारोऽन्ययोगव्यवच्छेदार्थः । ते संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुतत्रयोदशकलायुतश्चतुर्दशभागादिकनवराशयो 'निरस्तम् । श्रवणस्य ध्रुवकमाह-वैश्वान्त इति । उत्तराषाढाया अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम् । नवराशयो दश भागाः श्रवणध्रुवक इत्यर्थः । धनिष्ठाया ध्रुवकमाह-त्रिचतुःपादयोरिति । श्रवणस्य तृतीयचतुर्थचरणयोः क्रमेणान्तादिसन्धौ मकरराशेविंशतिभागे अविष्ठाधनिष्ठा ज्ञेया । नवराशयो विंशतिभागा धनिष्ठाध्रुव इत्यर्थः । तुकारात्क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य विंशतिकलोनसप्तभागानिरस्तम् । शतताराया भोगमाह-वभोगत इति । धनिष्ठाभोगात्कुंभस्य विंशतिकलोनसप्तभागावधेरित्यर्थः । शतताराया अशीतिर्भोगः । अतः प्राग्वधवा इति ज्ञापनार्थे स्वभोगत इत्युक्तम् । शततारायाः स्थानं शततारकाधुव इतिपर्यवसन्नम् । अवशिष्टनक्षत्राणां भोगानाह । षट्कृतिरिति । पूर्वाभाद्रपदायाः चत्रिंशत्फलाभोगः । उत्तराभाद्रपदाया द्वाविंशतिः । खेत्या एकोनाशीतिः । अथ शवकानयनं यथा । अश्विन्या भोगः । ४८ । दशगुणितः । ४८० । अतीतनक्षत्राभावाद्भोगयोजनामावः । अतोऽश्विन्याः कलात्मको ध्रुवः । ४८० । राश्यावस्तु ।। भरण्याभोगः । ४० । दशा हतः ।४००। अतीतनक्षत्रस्यैकत्वादष्टशतयुतो मरण्याः। परिभाषया राश्याद्यो ध्रुवः। ।२०। एवमाद्रोभोगः । ४। दशहतः । ४० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262