________________
(१४८) सूर्यसिद्धांत:
[ अष्टमोऽवा पाठस्त्वयुक्तः । शाकल्यसंहिताविरोधात् । एतेन सौरोक्तरुद्रमस्यांशास्यद्रयोगान्धयः कला इति नार्मदोक्तं दशकलोनपञ्चदशभागा मिथुने सर्वजनाभिमतध्रुवको दशकलायुतत्रयोदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः। पुनर्वसोरष्टसप्ततिः। पुष्यस्य षट्सप्ततिः । आश्लेषायाश्चतुर्दश । तथेति छन्दःपूरणार्थम् । मघायाश्चतुःपञ्चाशत् । पूर्वाफाल्गुन्याश्चतुःषष्टिः । उत्तराफाल्गुन्याः पञ्चाशत् । हस्तस्य षष्टिः । चित्रायाश्चत्वारिंशत् । स्वात्याश्च चतुःसप्ततिः । विशाखाया अष्टसप्ततिः । अनुराधायाश्चतुःषष्टिः । ज्येष्ठायाश्चतुर्दश । अनन्तर मूलस्य षट् । पूर्वाषाढायाश्चत्वारः । उत्तराषाढाया ध्रुवकमाह-वैश्वामिति । उत्तराषाढा योगतारानक्षत्रम् । आप्याभोगगम् आप्यस्य पूर्वापाढानक्षत्रस्यार्धभोगः । धनराशेविंशतिभागस्तत्रस्थितं ज्ञेयम् । अष्टौ राशयो विंशतिमागा उत्तराषाढाया ध्रुव इत्यर्थः । एतेन पूर्वाषाढायोगतारायाः सकाशादुत्तराषाहायोगताराविंशतिकलोनसप्तभागान्तारता। तेन पूर्वाषाढाध्रुवकोऽष्टराशयश्चतुर्दशभागा विंशतिक्लोनसप्तमागैर्युत उत्तराषाढाया- ध्रुवश्चत्वारिंशत्कलाधिकोक्त ध्रुव इति पर्वतोक्तमपास्तम् । ब्रह्मसिद्धांतविरोधात् । अभिजिद्धृवकमाह-आप्यस्येति । पूर्वाषढाया अवसाने धनुराशेविंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया । चत्वारिंशत्कलाधिकषाविंशतिभागाधिका अष्टौ राशयोऽभिजितो ध्रुव इत्यर्थः । एक्कारोऽन्ययोगव्यवच्छेदार्थः । ते संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुतत्रयोदशकलायुतश्चतुर्दशभागादिकनवराशयो 'निरस्तम् । श्रवणस्य ध्रुवकमाह-वैश्वान्त इति । उत्तराषाढाया अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम् । नवराशयो दश भागाः श्रवणध्रुवक इत्यर्थः । धनिष्ठाया ध्रुवकमाह-त्रिचतुःपादयोरिति । श्रवणस्य तृतीयचतुर्थचरणयोः क्रमेणान्तादिसन्धौ मकरराशेविंशतिभागे अविष्ठाधनिष्ठा ज्ञेया । नवराशयो विंशतिभागा धनिष्ठाध्रुव इत्यर्थः । तुकारात्क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य विंशतिकलोनसप्तभागानिरस्तम् । शतताराया भोगमाह-वभोगत इति । धनिष्ठाभोगात्कुंभस्य विंशतिकलोनसप्तभागावधेरित्यर्थः । शतताराया अशीतिर्भोगः । अतः प्राग्वधवा इति ज्ञापनार्थे स्वभोगत इत्युक्तम् । शततारायाः स्थानं शततारकाधुव इतिपर्यवसन्नम् । अवशिष्टनक्षत्राणां भोगानाह । षट्कृतिरिति । पूर्वाभाद्रपदायाः चत्रिंशत्फलाभोगः । उत्तराभाद्रपदाया द्वाविंशतिः । खेत्या एकोनाशीतिः । अथ शवकानयनं यथा । अश्विन्या भोगः । ४८ । दशगुणितः । ४८० । अतीतनक्षत्राभावाद्भोगयोजनामावः । अतोऽश्विन्याः कलात्मको ध्रुवः । ४८० । राश्यावस्तु ।। भरण्याभोगः । ४० । दशा हतः ।४००। अतीतनक्षत्रस्यैकत्वादष्टशतयुतो मरण्याः। परिभाषया राश्याद्यो ध्रुवः। ।२०। एवमाद्रोभोगः । ४। दशहतः । ४० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com