________________
ध्यायः ८.] संस्कृतटीका-भाषार्टीकासमेतः । (१४७) विन्यादीनां भोगलिप्ताः । भभोगोऽष्टशतीलिप्ता इत्युक्ताष्टशतकलाः प्रत्येक युताः । अश्विन्यायतीतनक्षत्रसङ्ख्यागुणितकलाष्टशतं युतमित्यर्थः । ध्रुवा नक्षत्राणा भवन्ति ॥१॥
भा०टी०-नक्षत्रोंके स्वभोगको १० से गुणकरके गतनक्षत्रकी भोगकला.( प्रत्येककी ८०० करके ) योग करनेसे नक्षत्रोंका ध्रुव होगा ॥ १॥
अथ प्रतिज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिजिच्छ्रवणधनिष्ठाव्यतिरिक्तानां तेशं ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकराह
अष्टार्णवाः शून्यकृताः पञ्चषष्टिनगेषवः ॥ अष्टार्थी अब्धयाऽष्टांगा अङ्गागा मनवस्तथा ॥ २ ॥ कृतेषवो युगरसाः शून्यबाणा वियद्रसाः ॥ खवेदाः सागरनगा गजागाः सागरर्तवः ॥३॥ मनवोऽथ रसा वेदा वेशमाप्याभोगगम् ॥
आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः ॥ ४॥ विचतुःपादयोः सन्धौ श्रविष्ठा श्रवणस्य तु ॥ स्वभोगतो वियन्नागाः षट्कृतिर्यमलाविनः ॥५॥ रंध्रादयः क्रमादेषां विक्षेपाः स्वापदकमात् ॥ दिङ्मासविषयाः सौम्ये याभ्ये पञ्चदिशो नव ॥ ६॥ सौम्ये रसाः खं याम्ये गाः सौम्ये खास्त्रियोदश । दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे ॥७॥ याम्येऽध्यधत्रिककृता नवसार्धशरेषवः ॥ उत्तरस्यां तथा षष्टिस्त्रिंशत्पत्रिंशदेव हि ॥ ८ ॥ दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तरे ।।
भागाः षडविंशतिः खं च दस्रादीनां यथाक्रमम् ॥ ९ ॥ अश्विन्यादिनक्षत्राणां क्रमाद्भोगा एते । तत्राश्विन्याम् अष्टचत्वारिंशत्कलाः मर. ण्याश्चत्वारिंशत् । कृत्तिकायाः कलाः पञ्चषाष्टः । गाहण्याः सप्तपञ्चाशत्कलाः । मृगशिरसोऽष्टपञ्चाशत् । आायाश्चत्वारः । अत्राब्धय इत्यत्र गोऽब्धयोगोमय इदि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com