________________
(१४६ )
सूर्यसिद्धान्तः
[ अष्टमोऽ
स्यायुक्तत्वमिति तदनुक्तौ सूर्यग्रहणोक्तरीत्या साधारण्येन सर्वत्र तद्विशेषोक्तिरस - द्वेोरिति ध्येयम् ॥ २३ ॥
भा०टी० - उत्तर में हो या दक्षिण में हो बहुधा शुक्र जयही पाता है । पूर्वनियम के द्वारा ग्रहो के साथ चंद्रमात्रा संयोगकाल निर्णयकरे ॥ २३ ॥
नन्येषां ग्रहाणां दूरान्तरेण सदोर्ध्वाधरान्तरसद्भावात्परस्परं योगासम्भवेन कथं युतिः संगतेत्यत आह
भावाभावाय लोकानां कल्पनेयं प्रदर्शिता ॥ स्वमागंगाः प्रयान्त्येते दूरमन्योन्यमाश्रिताः ॥ २४ ॥
एते ग्रहाः स्वमार्गगाः स्वस्वऋक्षास्था अन्योन्यमाश्रिता युतिकाल ऊर्ध्वाधरान्तराभावेन संयुक्ताः सन्तः प्रयांति गच्छति । इति दूरं दूरान्तरेण दर्शनादियं ग्रहयुतिकल्पनाकल्पनात्मिका वास्तवा प्रदर्शिता पूर्वोक्तग्रन्थेन कथिता । नन्ववस्तुभूता किमर्थ - मुक्ते यतः प्रयोजनमाह । भावाभावायेति । लोकानां भूस्यप्राणिनां भावः शुभफलमभाशुभफलं तस्मै शुभाशुभफलादेश व्यावस्तुभृतापि युतिरुक्तेति भावः ॥ २४ ॥ मा०टी०-ग्रहगण परस्पर, दूरस्थित अपनी २ कक्षा में चलते हैं । इकट्टे दिखाई देनेके कारण मनुष्य के शुभाशुभ फल के लिये युम्यादि कहा जाता है || २४ ॥
अथाग्रिमंग्रन्थस्यासंगतित्वनिरासार्थमधिकारसमाप्ति फक्किकयाह - स्पष्टम् । रंगनाथेन रचिते सूर्यसिद्धान्तटिप्पणे । ग्रहयुत्यधिकारोऽयं पूर्णो गूढप्रकाशके ॥ इति श्रीसकलगणकसार्वभौम बल्लालदेवज्ञात्म जरंगनाथगणकविरचिते गूढार्थप्रकाशके ग्रह - युत्यधिकारः सम्पूर्णः ।
इति ग्रहयुत्यधिकारः ।
सातवां अध्याय समाप्त ।
अष्टमोऽध्यायः ।
अथ प्रसंगारदारब्धो नक्षत्रग्रहयुत्यधिकारो व्याख्यायते । तत्र प्रथमं नक्षत्राणां ध्रुवज्ञानमाह
प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽथ दशाहतः ॥ भवन्त्यतितिधिष्ण्यानां भोगलिप्तायुता ध्रुवाः ॥ १ ॥
भानामश्विन्यादिनक्षत्राणामुत्तराषाढा भिजिच्छ्रवणधनिष्ठावर्जितानां लिप्तिका भोगसंज्ञाः कलाः प्रोच्यन्ते समनन्तरमेव कथ्यन्ते । अथानन्तरं स्वभोगः स्वाभीष्टनक्षत्रमोगः कलात्मको वक्ष्यमाणो दशभिर्गुणितः कार्यः । तत्र स्वाभीष्टनक्षत्रगत नक्षत्राणाम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com