________________
ध्यायः ८. ] सस्कृतीका-भाषाटीकासमेतः । अतीतनक्षत्राणां पञ्चतया पश्चगुणिताष्टशतेन । ४००० । चतुःसहस्रात्मकेन युतः कलायो ध्रुवः । ४०४० । राश्याद्यस्तु । २ । ७ । २० । एवं पूर्वाषाढाया दशगुणतो भोगः । ४० । एकोनविंशतिगुणिताष्टशतेन । १५२०० । युतः परिभाषया राश्याद्यो ध्रुवः । ८ । १४ । शतताराया दशगुणितो भोगः । ८०० । त्रयोविंशतिगुणिताष्टशतेन । १८४०० । युतश्चतुर्विंशतिगुणिताष्टशतरूपो। १९ । २०० । जातो ध्रुवो राश्याद्यः । १० । २० । पूर्वाभाद्रपदाया दशगुणितो भोगः । ३६० । चतुर्विशतिगुणिताष्टशतेन । १९२०० । युतो । १९५६० । जातो ध्रुवो राश्याद्यः । १० । २६ । उत्तराषाढाभिजिच्छ्रवणधनिष्ठानां स्वभोगस्थानात्पश्चात्स्थितत्वेनोक्तरीत्यसम्मवाद्भिनरीत्या ध्रुवका उक्ताः स्वादिस्थानाद्योगतारा यदन्तरकलाभिस्थितास्ता लाघवाद्दशापवर्तिता भोगसंज्ञा उक्ताः । तथाच ब्रह्मसिद्धान्ते । “अष्टौ विंशतिरों नगजाग्निर्व्यर्धखेषवः । त्रिताः सत्रिभागादिरसाख्यङ्काश्च षट्शतम् ॥ नवांशा नवसूर्याश्च वेदेन्द्राः शरबाणभूः । खात्यष्टिः खधृतिर्गोऽतिधृतिर्विश्वाश्विनस्तथा ॥ वेदाकृतिौडग्घस्ताः क्वब्धिहस्ता युगार्थदृक् ॥ खोत्कृतित्यंशहीनाश्वरसहस्ताः खहस्तिदृक् ॥ खगोऽश्विनः खदन्ताः षड्दन्ताः शैलगुणाग्नयः । मेषाद्यश्व्यादिमध्यांशाः षडंशोनाः खषड्गुणाः ॥” इति । अथ नक्षत्राणां विक्षेपभागानाह-एषामिति । उक्तधुवकसम्बन्धिनामश्विन्यादिनक्षत्राणां यथाक्रम क्रमादित्यर्थः । स्वात्स्वकीयापक्रमाकान्त्यग्राकान्तिवृत्तस्थध्रुवकस्थानादित्यर्थः । विक्षेपाविक्षेपभागा दक्षिणा उत्तरा वा भवन्ति तत्रोत्तरदिश्याश्विन्यादित्रयाणां दिङ्मासविषयाः क्रमेण दशद्वादशपञ्चेत्यर्थः। दक्षिणदिशि रोहिण्यादित्रयाणां पञ्चदश नव उत्तरस्यां पुनर्वसोः ष.भागाः । पुष्यस्य खं विक्षेपाभावः । अत्र पञ्चमाक्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षत्वान्न दोषः । दक्षिण स्यामाश्लेषायाः सप्त । उत्तरस्यां मंघादित्रयाणां शून्यं द्वादश त्रयोदश । दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ । अनन्तरं स्वात्या उत्तरादीश सप्तत्रिंशत् । दक्षिणस्यां विशा खादीनां षण्णां साधैकः त्रयं चत्वारः । नवसाईपञ्चपञ्च क्रमेण उत्तरदिशि तथा विक्षपभागा अभिजितः षष्टिः । श्रवणस्य त्रिंशत् । धनिष्ठायाः षट्त्रिंशत् । एक्कारो न्यून धिकव्यवच्छेदार्थः । चकारः र णार्थः । दक्षिणस्यां तुकारस्तथा । अर्धभागः शततारायाः। तुकारस्तथा । उत्तरस्यां पूर्वाभाद्रपदायाश्चतुर्विंशतिः । तस्यामेव दिशि भागा विक्षेपभागा उत्तराभाद्रपदाया भाः षडिशतिः । खेत्या विक्षेपाभावः । चकार: पूरणार्थः ॥ २ ॥ ३॥ ४ ॥५॥६॥७॥ ८ ॥ ९ ॥
भा०टी०-दूसरे श्लोकसे लकर नवे श्लोक तकका मर्थ सारिणीको भांति लिखा गय ॥२॥३॥४॥५॥६॥७॥८॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com