Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 147
________________ ( १३८ ) सूर्य्यसिद्धान्तः [ सप्तमोऽ नग्रहचिह्नखद्युरात्रवृत्ते क्रांत्याश्वरतोस्तुल्या सुभिरध ऊर्ध्वम् । मध्यक्रांतिसुरात्रवृत्तमुन्मण्डलात्स्पष्टक्रांतिचरतुल्यांतरण दक्षिणोत्तरगोलयोरध ऊर्ध्वमयनग्रह चिह्नस्य सत्त्वात् । क्षितिजाचरांतरेणोद्वृत्तस्य तत्त्वाच्चति । भास्कराचार्यैः “स्फुटास्फुटक्रांतिजयोश्वरार्धयोः सामान्य दिक्त्वेऽन्तर योगजासवः । पलोद्भवाख्याभनभः सदाम्” इति सूक्ष्ममाक्षं दृगसुज्ञानमुक्तम् । भगवता तु पूर्वोक्तरीत्या स्फुटास्फुटक्रांतिसंस्कारोत्पन्नस्फुटशररूपक्रांतिखण्डस्य स्वल्पांतरेण यथागतशरतुल्यस्य चरमाक्षदृगसव इत्यंगीकृत्य द्वादशकोटौ पलभाभुजस्तदा विक्षेपरूपक्रांतिकोट क इत्यनुपाताद्विक्षेपज्याफलधनुषोरत्यागात् स्वल्प तरेण कुज्याच रज्ययोरभिन्नत्वेनांगीकाराच्चरासव अक्षासव एता एव कला धृताः स्वल्पां तरत्वात् । क्षितिजातिरिक्तस्थग्रहबिम्बे त्वेताः कला अभीष्टनतकालपरिणता भवतीति विषुवच्छाययेत्यादिस्वदिनाधविभाजितमित्यंतम् । अत्र ग्रहे आयनं दृक्कर्म संस्कार्य तस्माद्दिन रात्रिमानादिनतं साधयित्वा दृक्कर्म क्रियते तदा किञ्चित्सूक्ष्ममिति सत्रिभग्रहज्येत्यादिश्लोकः सप्तमो यत्पुस्तके तत्र तूक्तं स्वतः सिद्धम् । नतानुपाते स्वपदव्यर्थ प्रयोगशंकानवकाशश्च समग्रहयोरायनदृक्कर्म संस्कारेण भिन्नत्वसम्भवात्तयदिनमाननतयोरपि भिन्नत्वसिद्धेरित्यवधेयम् । धनर्णोपपत्तिस्तु समप्रोत चलवृत्तं ग्रहविम्वोपरिगं यत्र क्रांतिवृत्ते लगति स राश्यादिभोग आक्षदृक्कर्म संस्कृत इति प्रागुक्तम् । तत्र पूर्व - कपाले तस्माद्ब्रहादायनग्रह चिह्नं क्रांतिवृत्त उत्तरशरेऽग्रिमभागे भवति दक्षिणशरे पश्चा द्भवतीतिक्रमेणर्णधनमुक्तम् । पश्चिमकपालेतूत्तरशरे पश्चाद्दक्षिणशरेऽग्रिमभाग इति क्रमेणायन ग्रहे धन दृक्कर्मद्वय संस्कृतो ग्रहसिद्धो भवतीत्युपपन्नं सर्वम् ॥ १० ॥ भा०टी० - त्रिराशियुत ग्रहस्पष्ट के अनुसार लाये हुये क्रांत्यंश करके विक्षेपकलाको गुणा करनेसे अयनदृक्कर्मविकला होगी । पूर्वोक्त क्रान्ति और विक्षेप मिन्नदिवस्थ होनेपर ग्रहमें योग और नहीं तो वियोग करे ॥ १० ॥ अथ प्रसंगादृक्कर्म संस्कारस्थलान्याह नक्षत्र ग्रहयोगेषु ग्रहास्तोदयसाधने ॥ गोत्र तु चन्द्रस्य कर्मादाविदं स्मृतम् ॥ ११ ॥ अत्र निमित्तसप्तमी । ग्रहनक्षत्राणां बहुत्वाद्बहुवचनम् । नक्षत्रग्रहयोर्युत्यर्थ नक्षत्र • ग्रहयोरिदं द्वयं दृक्कर्मस्मृतं प्रागुक्तम् आदौ प्रथमं कार्यम् । ताभ्यामनन्तरं क्रिया कायेत्यर्थः । अत्र नक्षत्रध्रुवकाणामायनदृक्कर्म संस्कृतानामेवोक्तत्वादायनं दृक्कर्म न कार्यमिति ध्येयम् । ग्रहाणामस्तोदयौ नित्यास्तोदयौ सूर्यसान्निध्यजनितास्तोदयौ च । ग्रहाणामुपलक्षणत्वान्नक्षत्राणामपि । तयोः साधननिमित्तं ग्रहस्य नक्षत्रस्य वा देयम् । अत्राक्षकर्मार्थ केवलं शरः साध्यः । नतु दिनमानरात्रिमाननतो ते साध्ये | क्षितिजसंबन्धेन ग्रह रूपोदयास्त लग्नस्यावश्यकत्वेन क्षितिजातिरिक्तनतपरिणामस्य व्यर्थत्वात । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262