________________
( १३८ )
सूर्य्यसिद्धान्तः
[ सप्तमोऽ
नग्रहचिह्नखद्युरात्रवृत्ते क्रांत्याश्वरतोस्तुल्या सुभिरध ऊर्ध्वम् । मध्यक्रांतिसुरात्रवृत्तमुन्मण्डलात्स्पष्टक्रांतिचरतुल्यांतरण दक्षिणोत्तरगोलयोरध ऊर्ध्वमयनग्रह चिह्नस्य सत्त्वात् । क्षितिजाचरांतरेणोद्वृत्तस्य तत्त्वाच्चति । भास्कराचार्यैः “स्फुटास्फुटक्रांतिजयोश्वरार्धयोः सामान्य दिक्त्वेऽन्तर योगजासवः । पलोद्भवाख्याभनभः सदाम्” इति सूक्ष्ममाक्षं दृगसुज्ञानमुक्तम् । भगवता तु पूर्वोक्तरीत्या स्फुटास्फुटक्रांतिसंस्कारोत्पन्नस्फुटशररूपक्रांतिखण्डस्य स्वल्पांतरेण यथागतशरतुल्यस्य चरमाक्षदृगसव इत्यंगीकृत्य द्वादशकोटौ पलभाभुजस्तदा विक्षेपरूपक्रांतिकोट क इत्यनुपाताद्विक्षेपज्याफलधनुषोरत्यागात् स्वल्प तरेण कुज्याच रज्ययोरभिन्नत्वेनांगीकाराच्चरासव अक्षासव एता एव कला धृताः स्वल्पां तरत्वात् । क्षितिजातिरिक्तस्थग्रहबिम्बे त्वेताः कला अभीष्टनतकालपरिणता भवतीति विषुवच्छाययेत्यादिस्वदिनाधविभाजितमित्यंतम् । अत्र ग्रहे आयनं दृक्कर्म संस्कार्य तस्माद्दिन रात्रिमानादिनतं साधयित्वा दृक्कर्म क्रियते तदा किञ्चित्सूक्ष्ममिति सत्रिभग्रहज्येत्यादिश्लोकः सप्तमो यत्पुस्तके तत्र तूक्तं स्वतः सिद्धम् । नतानुपाते स्वपदव्यर्थ प्रयोगशंकानवकाशश्च समग्रहयोरायनदृक्कर्म संस्कारेण भिन्नत्वसम्भवात्तयदिनमाननतयोरपि भिन्नत्वसिद्धेरित्यवधेयम् । धनर्णोपपत्तिस्तु समप्रोत चलवृत्तं ग्रहविम्वोपरिगं यत्र क्रांतिवृत्ते लगति स राश्यादिभोग आक्षदृक्कर्म संस्कृत इति प्रागुक्तम् । तत्र पूर्व - कपाले तस्माद्ब्रहादायनग्रह चिह्नं क्रांतिवृत्त उत्तरशरेऽग्रिमभागे भवति दक्षिणशरे पश्चा द्भवतीतिक्रमेणर्णधनमुक्तम् । पश्चिमकपालेतूत्तरशरे पश्चाद्दक्षिणशरेऽग्रिमभाग इति क्रमेणायन ग्रहे धन दृक्कर्मद्वय संस्कृतो ग्रहसिद्धो भवतीत्युपपन्नं सर्वम् ॥ १० ॥
भा०टी० - त्रिराशियुत ग्रहस्पष्ट के अनुसार लाये हुये क्रांत्यंश करके विक्षेपकलाको गुणा करनेसे अयनदृक्कर्मविकला होगी । पूर्वोक्त क्रान्ति और विक्षेप मिन्नदिवस्थ होनेपर ग्रहमें योग और नहीं तो वियोग करे ॥ १० ॥
अथ प्रसंगादृक्कर्म संस्कारस्थलान्याह
नक्षत्र ग्रहयोगेषु ग्रहास्तोदयसाधने ॥
गोत्र तु चन्द्रस्य कर्मादाविदं स्मृतम् ॥ ११ ॥
अत्र निमित्तसप्तमी । ग्रहनक्षत्राणां बहुत्वाद्बहुवचनम् । नक्षत्रग्रहयोर्युत्यर्थ नक्षत्र • ग्रहयोरिदं द्वयं दृक्कर्मस्मृतं प्रागुक्तम् आदौ प्रथमं कार्यम् । ताभ्यामनन्तरं क्रिया कायेत्यर्थः । अत्र नक्षत्रध्रुवकाणामायनदृक्कर्म संस्कृतानामेवोक्तत्वादायनं दृक्कर्म न कार्यमिति ध्येयम् । ग्रहाणामस्तोदयौ नित्यास्तोदयौ सूर्यसान्निध्यजनितास्तोदयौ च । ग्रहाणामुपलक्षणत्वान्नक्षत्राणामपि । तयोः साधननिमित्तं ग्रहस्य नक्षत्रस्य वा देयम् । अत्राक्षकर्मार्थ केवलं शरः साध्यः । नतु दिनमानरात्रिमाननतो ते साध्ये | क्षितिजसंबन्धेन ग्रह रूपोदयास्त लग्नस्यावश्यकत्वेन क्षितिजातिरिक्तनतपरिणामस्य व्यर्थत्वात ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com