________________
ध्यायः७] - संस्कृतटकिा-भाषाटीकासषेतः । (१३७) ङ्गीकाराद्गुणहरयो श इत्युपपन्नं सत्रिभेत्यादि विकला इत्यन्तम् । भास्कराचार्यैस्तु"आयनं वलनमस्फुटेषुणा संगुणं झुगुणभाजितं हतम् ॥ पूर्णपूर्णधृतिभिर्ग्रहाश्रितव्यसभोदयहृदायनाः कलाः ॥"इति सूक्ष्ममस्मादुक्तम् । धनोपपत्तिस्तु मकरायुः त्तरायणे दक्षिणध्रुवादक्षिणकदम्बोधः । उत्तरध्रुवादुत्तरकदम्ब ऊर्ध्वम् । तत्र शरो यदा तृत्तरस्तदा ग्रहबिम्बस्योत्तरकदम्बोन्मुखत्वनोत्तरध्रुवादुन्नतत्वात्क्रान्तिवृत्तस्य ग्रहचिह्नात्का न्तिवृत्तध्रुवप्रोतश्लथवृत्तसम्पात आयनग्रहचिह्नरूपः क्रान्तिवृत्त पश्चाद्भवत्यत आयनषिकलाः स्पष्टग्रह ऋणं कृताश्चेदायनग्रहभोगो ज्ञातः स्यात् । एवं दक्षिणशरे ग्रहाबम्बस्य दक्षिणकदम्बोन्मुखत्वेन ध्रुवोन्नतत्वात्क्रान्तिवृत्ते ग्रहचिह्नादायनग्रहचिह्नमग्र एव भवतीति धनमायनविकलाः । कर्कादिदक्षिणायने तु दक्षिणध्रुवादक्षिणकदम्बऊर्ध्वमुत्तरध्रुवादुत्तरकदम्बोधः । तत्र यदि ग्रहशरो दक्षिणस्तथा ग्रहबिम्बस्य दक्षिणध्रुवादुन्नतत्वात्कांन्तिवृत्ते ग्रहचिह्नादायनग्रहचिद्रं पश्चादत ऋणमायनम् । यद्युत्तरशरस्तदा ग्रहबिम्बस्योत्तरंध्रुवान्नतत्वादहचिह्नादायनग्रहचिह्नमग्रे क्रान्तिवृत्ते भवतीत्यायनं धनामति गोलस्थित्यायनशरदिगैक्य ऋणमयनशरदिग्भेदे धनमिति सिद्धम् ।। तत्र ग्रहायनदिशः सत्रिभग्रहगोलदिक्तुल्यत्वात्सात्रिभग्रहक्रान्तिग्रहशरयोरेकदिक्त्वे ऋणं भिन्नदिक्त्वे धनमित्युपपन्नम् । अथाक्षकर्मोपपत्तिः।' भूगर्भक्षितिजयाम्योत्तरवृत्तसम्पातरूपसमप्रोत. चलवृत्ते ग्रहबिम्बसक्ते क्रान्तिमण्डलस्य ग्रहासन्नो यत्र सम्पातस्तत्राक्षकलासंस्कृतो ग्रहस्तस्यायनग्रहस्य चान्तरे क्रान्तिवृत्तप्रदेश आक्षकलास्ताः। क्षितिजस्थग्रहबिम्बोपरमान्तरत्वात्परमा याम्योत्तरवृत्तस्थे ग्रहेऽयनग्रहचिह्नमेवाक्षकलासंस्कृतग्रहचिह्न भवतीति तदभावः । अतः क्षितिजस्थे ग्रहबिम्बे चलवृत्तं याम्योत्तरंक्षितिजसम्पातप्रोतक्षितिजवृत्ताद्भिन्नं तत्र ग्रहबिम्बसक्तं ध्रुवप्रोतचलवृत्तकान्तिवृत्तसम्पातोऽयनग्रहचिह्नरूपः क्षितिजस्थकान्तिवृत्तप्रदेशादूर्ध्वमधो वा याभिः कलाभिरन्तरितस्ता अक्षदृक्कलाः । आसां ज्ञानार्थ तदन्तरप्रदेशीयद्यरात्रवृत्तखण्डप्रदेशस्थासवोऽक्षजाः साधिताः । तथाहि । ध्रुवद्वयप्रोतग्रहबिम्बगतचलवृत्ते विषुववृत्तग्रहबिम्बान्तरे स्फुटा क्रान्तिः । विषुववृत्तकान्तिवृत्तस्यायनग्रहचिह्नान्तरे मध्यमाक्रान्तिरयनग्रहस्यायनग्रहचिग्रहबिम्बान्तरे स्फुटशरः । द्वयोः क्रान्त्योरेकदिक्त्वे स्फुटक्रान्तिराधिका । तत्रोत्तरगोलेऽयनग्रहचिह्नक्षितिजादधः स्वधुरात्रवृत्ते क्रान्त्योश्चरान्तरासुभिभवति । यतोऽयनग्रहाचह्नधुरात्रवृतस्थोन्मण्डलक्षितिजान्तररूपचरा ग्रहबिम्बीयचरस्याधिकत्वेन मध्यमैचरसम्बद्धाक्षतिजवृत्तप्रदेशाध्रुवाभिमुखसूत्रं ग्रहबिम्बीयचरसम्बद्धधुरात्रवृत्तप्रदेशेयत्रलग्रं तत्क्षितिजान्तराले चरान्तरस्य सत्त्वेन स्पष्टशरचरान्तराभ्यां । कोटिभुजाभ्यामांयतचतुरस्रक्षेत्रस्य तद्द्यरात्रवृत्तद्वयमध्ये स्फुटदर्शनम् । एवं दक्षिणगोलेऽयनग्रहचिगस्वारात्रवृत्ते क्षितिजादूर्ध्व क्रान्त्योश्चरान्तरासुभिारीत । क्रान्त्योभिन्नदिक्त्वे तु क्षितिजादयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com