Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 128
________________ ध्यायः ५. ] संस्कुतटीका - भाषाटीकासमेतः । ( ११९ ) तात्कालिकाकस्य न्यूनत्वे मध्यका लिकत्रिभोनलग्नात् तात्कालिकार्कस्याधिकत्वे मोक्षकालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्व इत्यर्थः । लम्बनैकता लम्बनैक्यम् । स्पर्शमध्ययोर्भेदे तात्कालिकलम्बनयोर्योगः । मध्यमोक्षयोर्भेदात्तात्कालिक लम्बनयोयोग इत्यर्थः । स्वकीये स्वकीये स्थित्यर्द्ध संयुक्ता कार्या । स्पर्शस्थित्यद्धे स्पर्शमध्यकालिक लम्बनयोर्योगों योज्यः । मोक्षस्थित्यर्थे मोक्षमध्यकालिक लम्बनयोर्योगो योज्य इत्यर्थः । स्पर्शस्थित्यर्ध मोक्षस्थित्यर्ध च स्फुटं भवति । आभ्यां चन्द्रग्रहणाक्त दिशा मध्यग्रहणकालात्पूर्वमपरत्र क्रमेण स्पर्शमोक्षकालौ स्त इत्यर्थसिद्धम् । अथोक्तरीत्या विमदर्धपि स्पष्टत्वमतिदिशति विमर्दार्ध इति । स्पर्शमदर्द्धमोक्षमदधिं चन्द्रग्रहणाधिकारोक्तरीत्या स्पष्टशरेण सकृत्साधिते उक्तवत् । स्थित्यर्धेनाधिकात्प्राग्वत्तिभ्यं तालं - बनं पुनः ' इत्याद्युक्तरीत्या स्थित्यर्धस्थाने मदर्धिग्रहणेन ग्रासमोक्षोद्भवमित्यत्र संमीलनोन्मीलनोद्भवमिति ग्रहणेन प्राग्ग्रहणमित्यत्र संमीलनग्रहणेन मौक्षिकमित्यत्रोन्मीलनग्रहणेन स्फुटे साध्ये | अपिः समुच्चये । चकारात्ताभ्यां सम्मीलनोन्मीलनकालौ मध्यग्रहणकालात्पूर्ववत्साध्यावित्यर्थः । अत्रोपपत्तिः । स्थित्यर्धीनयुतो मध्यग्रहणकालः स्पर्शमोक्षकालः । मध्यकालिक लन्चनसंस्कारात् । स्पर्शमोक्षकालिकलम्बनसंस्कारस्वापेक्षितत्वाच्च । नहि यः कालो लम्बनसंस्कृतः स्फुटः स त्वभिन्नकालिकलम्बनसंस्कृतः स्फुटः स्यात्सम्बन्धाभावात् । पूर्वस्पर्शमोक्षकालयोरज्ञानात् तात्कालिक लम्बन ज्ञानाभावाच्च । अतो मध्यकालज्ञानार्थं यथा तिथ्यन्तादसकृलम्बनं प्रसाध्य तिथ्यन्ते संस्कृत्य मध्यकालस्तथा स्पर्शमोक्षस्थित्यर्धहीन युक्त तिथ्यन्तकालाभ्यां स्पर्शमोक्षतिथ्यन्तरूपाभ्यां प्रत्येकं लम्बनमसकृत्प्रसाध्य स्वस्वतिथ्यन्ते संस्कृत्य स्पर्शमोक्षकालौ स्फुटौ तन्मध्यकालयोरन्तरं स्फुटं स्थित्यर्धम् । तत्रर्णलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ यदा मध्यलम्बनादधिकं स्पर्शलम्बनं मोक्षलंबनं च न्यूनं तदा स्पर्शस्थित्य धानतिथ्यन्तस्याधिकलम्बनोनितस्य स्पर्शकालत्वान्यूनलम्बनोनितस्य तिथ्यन्तस्य मध्यकालत्वातयोरन्तरे तिथेः समत्वेन नाशात्स्पर्शस्थित्यर्धं स्पर्शकालिकलम्बनेन युतं मध्यकालिक लम्बनेन हीन मेति लम्बनयोरन्तरं तत्र धनं योज्यम् । एवं मोक्षास्थित्यर्धयुततिथ्यन्तस्य न्यूनलम्बनोनितस्य मोक्षकालत्वान्मध्यमोक्षकालयोरन्तरे पूर्वरीत्या मध्यमो . क्षकालिकयोर्लम्बनयोरन्तरं धनं मोक्षस्थित्यर्धे योज्यम् । यदा तु मध्यलम्बनादीनं स्पर्शलंबनं मोक्षलंबनं चाधिकं तदा न्यूनलम्बनहीनस्य स्पर्शकालत्वादधिकं लंबनम् । हीनस्य मध्यकालत्वादुक्तरीत्या तदन्तरे स्पर्शस्थित्यर्थे लंबनान्तरं हीनम् । एवमधिकलंबनहीनस्य मोक्षकालत्वान्मध्यमोक्षयोरन्तरे मोक्षस्थित्यर्धे लंबनान्तरं हीनम् । धनलंबनेन स्पर्शमध्यमोक्षोत्पत्तौ तु यदा मध्यलंबनान्न्यूनं स्पर्शलंबनं मोक्षलंबनं चाधिकं तदा स्पर्शस्थित्यर्धेनातिथ्यन्तस्य न्यूनलंबनाधिकस्य स्पर्शकालत्वादधिकलंबनाधिक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262